Enter your Email Address to subscribe to our newsletters

जोधपुरम्, जूनमासस्य २५ दिनाङ्कः (हि.स.)। कृषिविश्वविद्यालयस्य कृषक-कौशलविकासकेन्द्रस्य सौजन्येन विश्वविद्यालयस्य गोद्ग्रामे बिंजवाडिया-ग्रामे प्राकृतिककृषि-जागरूकता-प्रशिक्षण-कार्यक्रमस्य आयोजनम् अभवत्। अस्य कार्यक्रमस्य उद्देश्यं कृषकान् प्राकृतिक-कृषेः प्रविधिषु, जैविक-उर्वरकस्य उपयोगे तथा सस्येषु प्राकृतिकरीत्या कीट-रोग-प्रबन्धनस्य उपायेषु जागरूकान् कर्तुम् आसीत्।
कार्यक्रमे कृषककौशलविकासकेन्द्रस्य नोडल-अधिकारिणी डॉ.प्रियङ्का-स्वामीविश्वविद्यालयस्य कृषककौशल-विकासकेन्द्रस्य च विविधक्रिया-कलापानाम्, प्रशिक्षणकार्यक्रमाणां तथा कृषकहिताय सञ्चालितानां योजनानां विषये सूचनाम् अददात्। तया कृषकाः केन्द्रे सम्बद्धाः भूत्वा नवीनकृषिप्रविधीनां लाभं ग्रहीतुं प्रोत्साहिताः। प्रशिक्षणाधिकारिणी डॉ.प्रियङ्का प्राकृतिककृषेः महत्त्वं, जैविक-उर्वरक-निर्माणस्य विधिं तस्य उपयोगस्य वैज्ञानिकं ज्ञानं च कृषकेभ्यः अवदत्।
तया उक्तं यत् प्राकृतिककृषेः अवलम्बनेन भूमेः उर्वरता वर्धते तथा कृषेः व्ययः न्यूनीकर्तुं शक्यते। प्रशिक्षणाधिकारिणी नीलिमा मकवाना सस्येषु प्राकृतिकरीत्या कीट-रोग-नियन्त्रणस्य विविधोपायान्, जैविकविधीन् तथा पर्यावरणानुकूल-कृषिप्रविधीनां विषये विस्तरेण सूचनाम् अददात्। तया कृषकाः रासायनिककृषि-आदानानां सन्तुलितोपयोगाय प्राकृतिक-संसाधनानां संरक्षणाय च प्रेरिताः।
कार्यक्रमस्य अवसरे सुभाषबाजिया क्षेत्रीयपरिस्थितीनाम् अनुरूपाणां उपयुक्तसस्यानाम् उन्नतप्रजातीनां तेषां वैज्ञानिककृषेः विषये च कृषकेभ्यः सूचनाम् अददात्। प्रशिक्षणानन्तरं कृषिविशेषज्ञानां दलद्वारा कृषकाणां क्षेत्राणां भ्रमणं कृतम्। अस्मिन्नवसरे सस्येषु उत्पन्नानां समस्याः निरीक्षिताः तथा रोगग्रस्तसस्यानां नमूनानि संगृहीतानि। प्राप्तनमूनानां परीक्षणं कृषिअनुसन्धानकेन्द्रस्य सहाचार्येण डॉ.अशोकमीणामहोदयेन कृतम् तथा कृषकेभ्यः रोगाणां परिचयः उचितनिदानस्य च सूचना प्रदत्ता।
कार्यक्रमे उपस्थिताः कृषकाः प्राकृतिककृषिसम्बद्धानां नवीनप्रविधीनां ज्ञानम् अलभन्त। कृषकैः कृषि-विश्वविद्यालयस्य कृषककौशल-विकासकेन्द्रस्य च एतस्य प्रशिक्षण-कार्यक्रमस्य प्रशंसा कृता।
Hindusthan Samachar / Divya Ranjan