Enter your Email Address to subscribe to our newsletters

गुरुग्रामः, २५ जूनमासः (हि.स.)। अतिरिक्त-उपायुक्तः सोनूभट्टः अवदत् यत् अद्यतनस्य प्रतिस्पर्धात्मकयुगस्य सन्दर्भे केवलं शैक्षणिकज्ञानमेव न, अपितु उद्योगानां आवश्यकतानुरूपं व्यावसायिक-कौशलमपि यूनां सफलतायाः कुञ्जी अस्ति। एतत् तेन गुरुवासरे कॉमविवा संस्थया राजकीयकन्या-महाविद्यालयः सेक्टर-14 इत्यस्य छात्राभ्यः त्रैमासिक-निगम-कार्यकारी-प्रशिक्षणस्य अनन्तरं प्रमाणपत्र-वितरण-कार्यक्रमे उक्तम्।
सोनू-भट्ट-महोदयेन उक्तं यत् एतदेव उद्दिश्य कॉमविवा-संस्थया राजकीय-कन्या-महाविद्यालयस्य छात्राभ्यः त्रिमासात्मकं निगम-कार्यकारी-प्रशिक्षणं प्रदत्तम्। अस्य कार्यक्रमस्य कार्यान्वयनं भारत-सर्वकारस्य कौशल-मन्त्रालयस्य संस्था एम.इ.पी.एस.सी. द्वारा कृतम्। प्रशिक्षणं सफलतया सम्पन्नवतीभ्यः छात्राभ्यः विकास-सदने आयोजिते कार्यक्रमे अतिरिक्त-उपायुक्तेन प्रमाण-पत्राणि प्रदत्तानि, तासां उज्ज्वल-भविष्याय शुभकामनाश्च प्रदत्ताः।
तेन उक्तं यत् एतादृशाः प्रशिक्षण-कार्यक्रमाः छात्राः निगम-कार्यसंस्कृत्या, संचार-कौशलेन, व्यक्तित्व-विकासेन तथा रोजगारार्थम् आवश्यकाभिः व्यावहारिक-दक्षताभिः सह संयोजयन्ति।
कॉमविवा-टेक्नोलॉजी-संस्थायाः प्रतिनिधिभिः उक्तं यत् प्रशिक्षणं प्राप्त-वतीनां छात्राणां रोजगार-संयोजनस्य दिशि अपि संस्था सक्रियतया कार्यं करिष्यति। प्रशिक्षणोत्तरं योग्य-प्रतिभागिनां कृते विविधासु संस्थासु रोजगार-अवसरान् प्रदातुं नियोजन-प्रक्रिया सञ्चालिता भविष्यति, येन छात्राभ्यः स्व-व्यावसायिक-जीवनस्य उत्तमा आरम्भ-सन्धिः प्राप्स्यते।
अस्मिन् अवसरे सीएसआर, कौशल-विकासः, नवोन्मेष-केन्द्रं तथा स्टार्टअप-विभागस्य मुख्य-कार्यकारी-अधिकारी तथा कार्यकारी-निदेशकः गौरवसिंहः अपि उपस्थितः आसीत्।
कार्यक्रमे कौशल-मन्त्रालयस्य तथा एमईपीएससी-संस्थायाः मुख्य-परामर्श-दाता आर.रहमानः, मोहम्मद-निजामुद्दीनः, कॉमविवा-टेक्नोलॉजीज-संस्थायाः उपाध्यक्षः अभिषेकः बांगिया तथा राजकीय-कन्या-महाविद्यालय-सेक्टर-१४ इत्यस्य प्रतिनिधयः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan