Enter your Email Address to subscribe to our newsletters




रांची, 25 जूनमासः (हि.स.)। झारखण्डराज्यस्य पर्यटन कला संस्कृतिः क्रीडा युवा कार्यविभागस्य पक्षतः गुरुवासरे राजधानी राञ्चीनगरस्य मोरहाबादीक्रीडाङ्गणे स्थितायां बापूवाटिकायां नशामुक्तिजागरूकतामैराथनस्पर्धायाः आयोजनं कृतम्। अस्य कार्यक्रमस्य उद्देश्यः युवानां सामान्यनागरिकाणां च मादकद्रव्याणां दुष्प्रभावेषु जागरूकतां वर्धयितुं तथा तान् स्वस्थां सकारात्मकां रचनात्मकां च जीवनशैलीम् अवलम्बितुं प्रेरयितुम् आसीत्।
मैराथनस्पर्धायां बहुसंख्यया युवानः क्रीडकाः विद्यार्थीजनाः स्वयंसेवीसङ्गठनानां प्रतिनिधयः क्रीडाप्रेमिणः विविधसामाजिकसंस्थानां सदस्याश्च महता उत्साहेन सहभागित्वं कृतवन्तः। सहभागिनः स्वहस्तेषु जागरूकतासम्बद्धाः तख्तिकाः पताकाश्च धारयित्वा नशाव्यसनस्य विरोधे सन्देशं प्रसारितवन्तः। सम्पूर्णमार्गे नशां त्यजत स्वस्थजीवनम् अङ्गीकुरुत, युवाशक्तिः राष्ट्रस्य बलम् अस्ति, नशामुक्तं झारखण्डम् अस्माकं सङ्कल्पः अस्ति, स्वस्थाः युवानः समृद्धः समाजः इत्यादिभिः घोषवाक्यैः जनाः जागरूकाः कृताः।
कार्यक्रमस्य शुभारम्भः विभागीयमन्त्री सुदिव्यकुमारेण हरितध्वजप्रदर्शनेन कृतः। अस्मिन् अवसरे तेन उक्तं यत् मुख्यमन्त्रिणः हेमन्तसोरेणस्य नेतृत्वे राज्यसर्वकारः नशामुक्तझारखण्डनिर्माणार्थं व्यापकस्तरे जनजागरूकताअभियानं सञ्चालयति।
तेन उक्तं यत् नशाव्यसनम् अद्यतनसमये युवानां सम्मुखे स्थितानां प्रमुखसामाजिकचुनौतीनां मध्ये अन्यतमम् अस्ति। एतत् न केवलं व्यक्तेः शारीरिकं मानसिकं च स्वास्थ्यं प्रभावितं करोति अपितु परिवारस्य समाजस्य च संरचनायामपि प्रतिकूलं प्रभावं जनयति।
मन्त्री सुदिव्यकुमारः अवदत् यत् सर्वकारस्य उद्देश्यः केवलं नशाव्यसनस्य विषये चेतावनीप्रदानं नास्ति अपितु युवानः क्रीडा शिक्षा कला संस्कृति तथा अन्याभिः सकारात्मकक्रियाभिः संयोज्य तेषां कृते उत्तमान् अवसरान् उपलब्धान् कर्तुमपि अस्ति। तेन उक्तं यत् यदा युवानः स्वशक्तिं रचनात्मककार्येषु नियोजयन्ति तदा ते स्वस्य समाजस्य राज्यस्य च विकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति।
तेन उक्तम् यत् मोरहाबादीक्रीडाङ्गणात् आरब्धा एषा मैराथनस्पर्धा केवलं क्रीडाकार्यक्रमः नास्ति अपितु सामाजिकपरिवर्तनस्य सन्देशं वहन्ती महत्त्वपूर्णा योजना अस्ति। अस्याः उद्देश्यः जनान् एतत् बोधयितुम् अस्ति यत् नशा कस्यापि समस्यायाः समाधानं न भवति अपितु अनेकानां नवीनसमस्यानां मूलकारणं भवति। अस्माभिः सर्वैः मिलित्वा तादृशस्य समाजस्य निर्माणं कर्तव्यं यत्र युवानः स्वस्थाः जागरूकाः आत्मनिर्भराश्च भवेयुः।
मन्त्री युवभ्यः आह्वानम् अकरोत् यत् ते नशाव्यसनात् दूरं स्थित्वा क्रीडा शिक्षा कौशलविकासादिषु क्रियाकलापेषु सक्रियतया सहभागित्वं कुर्वन्तु तथा स्वमित्रान् परिवारजनान् समीपवर्तिनः जनान् च नशाव्यसनस्य दुष्प्रभावेषु जागरूकान् कुर्वन्तु। तेन विश्वासः व्यक्तीकृतः यत् युवानां सक्रियसहभागित्वेन जनसहयोगेन च राज्यं नशामुक्तं कर्तुं निर्धारितः लक्ष्यः अवश्यं सिद्धिं प्राप्स्यति।
विभागस्य अधिकारिणः अवदन् यत् राज्यस्य सर्वेषु जनपदेषु नशामुक्तिअभियानस्य अन्तर्गतं जागरूकतायात्राः क्रीडास्पर्धाः सांस्कृतिककार्यक्रमाः कार्यशालाः जनसंवादकार्यक्रमाश्च आयोजिताः सन्ति येन अस्य अभियानस्य सन्देशः अधिकाधिकजनान् प्रति प्राप्नुयात्।
मैराथनस्पर्धायाः समये सहभागिषु विशेषः उत्साहः दृष्टः। अनेकैः युवभिः एषा योजना समाजे सकारात्मकपरिवर्तनस्य दिशि महत्त्वपूर्णा प्रारंभिकी इति कथिता। कार्यक्रमस्य अन्ते सर्वे सहभागिनः नशामुक्तझारखण्डनिर्माणस्य सामूहिकं सङ्कल्पं स्वीकृतवन्तः तथा समाजे जागरूकतां प्रसारयितुं वचनम् अददुः।------------
Hindusthan Samachar / Dheeraj Maithani