Enter your Email Address to subscribe to our newsletters

पूर्वी सिंहभूमः, 25 जूनमासः (हि.स.)।भारतीयरेलवे श्रद्धालुभ्यः देशस्य प्रमुखतीर्थस्थलानां दर्शनं कारयितुम् उद्दिश्य विशेषां भारतगौरवपर्यटकयानसेवां अयोध्याकाशीपुण्ययात्रा वैद्यनाथधामसहितम् इति नाम्ना सञ्चालयितुं सज्जा अस्ति।
एषा विशेषा पर्यटकयानसेवा तेलङ्गानराज्यस्य सिकन्दराबादनगरात् प्रस्थित्य श्रद्धालून् अयोध्यां काशीं वैद्यनाथधामं च सहित्य देशस्य प्रमुखधार्मिकस्थलानां यात्रां कारयिष्यति।
रेलवेविभागेन प्रकाशितसूचनानुसारम् एषा विशेषा पर्यटकयानसेवा चतुर्थे जुलैमासस्य दिने वर्षे २०२६ सिकन्दराबादनगरात् यात्राम् आरभिष्यति तथा पञ्चमे जुलैमासस्य दिने दक्षिणपूर्वरेलवेमण्डलस्य चक्रधरपुरविभागेन गमिष्यति। भारतगौरवपर्यटकयानयोजनायाः अन्तर्गतं सञ्चाल्यमानायाम् अस्यां विशेषायां यानसेवायां चतुर्दश एलएचबीयानकोष्ठाः संयोजिताः भविष्यन्ति येन यात्रिकेभ्यः सुरक्षितः सुखकरश्च यात्रानुभवः प्राप्येत।
निर्धारितसमयसारिण्यानुसारं एषा रेलयानसेवा पञ्चमे जुलैमासस्य दिने वर्षे २०२६ सायं सप्तवादने झारसुगुडास्थानकम् आगमिष्यति तथा सप्तवादने दशमिनिटे तस्मात् प्रस्थितं भविष्यति। अनन्तरं रेलयानं राउरकेलास्थानके रात्रौ अष्टवादने पञ्चपञ्चाशन्मिनिटे आगमिष्यति तथा नववादने पञ्चमिनिटे प्रस्थितं भविष्यति।
यात्रायाः अग्रिमचरणे एषा रेलयानसेवा षष्ठे जुलैमासस्य दिने वर्षे २०२६ रात्रौ एकादशवादने पञ्चाशन्मिनिटे हटियास्थानकम् आगमिष्यति तथा पञ्चपञ्चाशन्मिनिटे प्रस्थितं भविष्यति। अनन्तरं रेलयानं राञ्चीस्थानके रात्रौ द्वादशवादने दशमिनिटे आगमिष्यति तथा द्वादशवादने विंशतिमिनिटे अग्रिमयात्रार्थं प्रस्थितं भविष्यति।
रेलवेविभागेन उक्तं यत् भारतगौरवपर्यटकयानपहलस्य माध्यमेन यात्रिकेभ्यः श्रद्धालुभ्यश्च सुरक्षितः सुविधाजनकः स्मरणीयश्च यात्रानुभवः प्रदातुं निरन्तरं प्रयत्नः क्रियते। एषा विशेषा रेलयानसेवा धार्मिकपर्यटनस्य संवर्धनं कृत्वा देशस्य प्रमुखतीर्थस्थलेषु सुगमं रेलसम्पर्कं प्रदातुं महत्त्वपूर्णा पहलः अस्ति।
एषा सूचना दक्षिणपूर्वरेलवे चक्रधरपुरमण्डलस्य जनसम्पर्काधिकारी वरिष्ठमण्डलवाणिज्यप्रबन्धकेन गुरुवासरे प्रकाशितायां प्रेसविज्ञप्तौ प्रदत्ता।
---------------
Hindusthan Samachar / Dheeraj Maithani