Enter your Email Address to subscribe to our newsletters

नैरोबीनगरम्, २५ जूनमास:। केन्यादेशस्य राजधानी नैरोबी-नगरे गुरुवासरे शासनविरोधि-प्रदर्शनानां द्वितीय-वार्षिकी-अवसरे प्रस्तावित-प्रदर्शनात् पूर्वं आरक्षकबलैः नगरं प्रति गच्छतां प्रमुखमार्गाणां उपरि अवरोधकाः स्थापिताः। वर्षे २०२४ सम्पन्नेषु प्रदर्शनेषु न्यूनातिन्यूनं षष्टिः जनाः मृत्युम् अगच्छन्, तथा प्रदर्शनकारिणः संसद्भवनम् उपगम्य स्वविरोधं प्रदर्शितवन्तः।
माध्यम-प्रतिवेदनानुसारं मृतजनानां परिजनैः मानवाधिकार-कार्यकर्तृभिश्च न्यायप्राप्तौ विलम्बस्य तथा पीडितानां क्षतिपूर्ति-प्रक्रियायाः पारदर्शितायाः अभावस्य विरोधे प्रदर्शनस्य आह्वानं कृतम्। प्रदर्शनकारिणां आरोपः अस्ति यत् मानवाधिकार-उल्लङ्घन-प्रकरणेषु अद्यापि सर्वकारेण पर्याप्ता कार्यवाही न कृता।
राष्ट्रपतिः विलियम् रुटो गतसप्ताहे उक्तवान् यत् नागरिकानां शान्तिपूर्ण-प्रदर्शनस्य अधिकारः अस्ति, किन्तु सर्वकारः विद्यालयानां, व्यापार-प्रतिष्ठानानां तथा सार्वजनिक-जीवनस्य सामान्य-सञ्चालनमपि सुनिश्चितं करिष्यति। सः प्रदर्शनकारिणः राष्ट्रस्य सामान्य-जीवनं न स्थगयितुम् इति चेतावनीम् अददात्।
गृहमन्त्री किपचुम्बा मुरकोमेन उक्तवान् यत् पुलिसबलं शान्तिपूर्ण-प्रदर्शनकारिभिः सह सहयोगं करिष्यति, किन्तु प्रदर्शनस्य आडम्बरेण हिंसां लुण्ठनं वा कुर्वतां जनानां विरुद्धं कठोरकार्यवाही भविष्यति।
गुरुवासरस्य प्रातःकाले नैरोबी-नगरं परितः सर्वेषु प्रमुख-राजमार्गेषु आरक्षकबलस्य नियुक्तिः वर्धिता तथा अवरोधकाः स्थापिताः, येन अनेकेषां वाहनानां नगरे प्रवेशः कठिनः अभवत्। संसद्भवनस्य परितः अपि सुरक्षा सुदृढा कृता, तथा बहुभिः वणिज्य-प्रतिष्ठानैः सावधानतया स्वप्रतिष्ठानानि पिहितानि।
विपक्षीय-नेतारः प्रदर्शनस्य समर्थनं कृत्वा सर्वकारात् क्षतिपूर्ति-कार्यक्रमे अधिक-पारदर्शितायाः अपेक्षाम् अकुर्वन्। पूर्व-उपराष्ट्रपतिः कालोन्जो मुस्योका, पूर्व-न्यायमन्त्री मार्था कारुआ तथा पूर्व-मुख्यन्यायाधीशः डेविड् मारागा इत्यादयः अनेकाः नेतारः मृतजनानां परिजनैः मानवाधिकार-कार्यकर्तृभिश्च सह यात्रायां सम्मिलिताः। तैः संसद्भवनस्य समीपे स्थापितेषु कण्टक-तार-युक्तेषु अवरोधकेषु श्रद्धाञ्जलिः अर्पिता।
नैरोबी-आरक्षक-प्रमुखः इस्सा मोहम्मद उक्तवान् यत् एतेषां सुरक्षोपायानां उद्देश्यं विधि-व्यवस्थायाः संरक्षणं तथा सम्भावित-अपराधिनां परिचयः अस्ति, न तु सामान्य-नागरिकाणां आवागमनस्य निरोधनम्। तेन अनेकेषां जनानां ग्रहणम् अपि पुष्टि: कृता, विस्तृत-विवरणं तु पश्चात् प्रकाशयिष्यते इति उक्तम्।
एतस्मिन्नन्तरे मृतजनानां परिवाराः अद्यापि न्यायस्य प्रतीक्षां कुर्वन्ति। एडित् वांजिकु, यस्याः एकोनविंशतिवर्षीयः पुत्रः इब्राहिम् कामाऊ वर्षे २०२४ प्रदर्शनकाले गोली-प्रहारेण मृत्युम् अगच्छत्, सा अवदत् यत् पुत्रवियोगेन जीवनं अत्यन्तं कठिनं जातम्, तथा परिवारः अद्यापि न्यायस्य आशां धारयति।
/ अंशु गुप्ता