आकाशवाण्यां विद्यालय-शिक्षामन्त्री गजेन्द्र-यादव-महोदयस्य विशेष-साक्षात्कारस्य प्रसारणं २६ जून-दिनाङ्के भविष्यति
रायपुरनगरम्, २५ जूनमासः (हि.स.)। विद्यालय-शिक्षामन्त्रिणः गजेंद्रयादवस्य विशेष-साक्षात्कारः, यः आकाशवाण्या गृहीतः, शुक्रवासरे २६ जूनमासे २०२६ दिनाङ्के प्रसारितः भविष्यति। अयं कार्यक्रमः प्रातः १०:०० वादनात् १०:२५ वादनपर्यन्तं प्रसारयिष्यते। अस्य क
स्कूल शिक्षा मंत्री गजेंद्र यादव


रायपुरनगरम्, २५ जूनमासः (हि.स.)। विद्यालय-शिक्षामन्त्रिणः गजेंद्रयादवस्य विशेष-साक्षात्कारः, यः आकाशवाण्या गृहीतः, शुक्रवासरे २६ जूनमासे २०२६ दिनाङ्के प्रसारितः भविष्यति। अयं कार्यक्रमः प्रातः १०:०० वादनात् १०:२५ वादनपर्यन्तं प्रसारयिष्यते।

अस्य कार्यक्रमस्य प्रस्तुतीकरणं आकाशवाणी-रायपुरस्य प्रादेशिक-समाचार-एकांशेन कृतम्। अयं कार्यक्रमः अपलिङ्क्-माध्यमेन उपलब्धः भविष्यति तथा च छत्तीसगढ़-राज्यस्थितैः आकाश-वाण्याः सर्वैः केन्द्रैः पुनःप्रसारितः भविष्यति। तेन प्रदेशस्य सर्वे श्रोतारः मन्त्री-यादव-महोदयस्य विचारान् विभागीय-गतिविधीनां च विषये सम्यक् अवगताः भविष्यन्ति।

Hindusthan Samachar / अंशु गुप्ता