Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 25 जूनमासः (हि.स.)।
ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी संविधानहत्यादिवसस्य अवसरे वर्षे १९७५ आरोपितम् आपत्कालम् भारतीयलोकतन्त्रस्य इतिहासे कृष्णाध्यायः इति अवदत्। तेन उक्तं यत् एकस्य परिवारस्य सत्तालालसया एकाधिपत्यमानसिकतया च देशे आपत्कालः आरोपितः येन लोकतान्त्रिकव्यवस्था नागरिकाणां मौलिकाधिकाराश्च गम्भीरतया प्रभाविताः अभवन्।
सामाजिकमाध्यमे प्रकाशिते स्वसन्देशे मुख्यमन्त्री अवदत् यत् आपत्कालस्य समये संवैधानिकी व्यवस्था पूर्णतया बाधिता आसीत्। लक्षशः देशभक्तनागरिकाः विना किमपि युक्तियुक्तकारणेन कारागारेषु निरुद्धाः तथा सञ्चारमाध्यमानां स्वतन्त्रतापि दमनं प्राप्तवती। तेन एतत् लोकतान्त्रिकमूल्येषु कृतः गम्भीरः प्रहारः इति निरूपितम्।
मुख्यमन्त्री अवदत् यत् लोकतन्त्रस्य संविधानस्य च रक्षणे नागरिकाणां जागरूकतां वर्धयितुम् उद्दिश्य समग्रदेशे पञ्चविंशतितमे जूनमासस्य दिने संविधानहत्यादिवसः इति रूपेण आयोजनं क्रियते। तेन आपत्कालस्य एकपञ्चाशत्तम्यां वर्षगाठायाम् तेषां सर्वेषां लोकतन्त्रसेनानीनां श्रद्धाञ्जलिः अर्पिता ये तानाशाहीप्रवृत्तीनां विरुद्धं स्वरम् उत्थापितवन्तः कारावाससहिताः अनेकाः कठिनताः च सोढवन्तः।
माझी अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे संविधानस्य गरिमा सार्वभौमत्वं लोकतान्त्रिकमूल्यानां रक्षणं च सुनिश्चितम् अभवत् तथा समाजस्य अन्तिमपङ्क्तौ स्थितानामपि जनानां सशक्तीकरणस्य दिशि कार्याणि कृतानि। तेन नागरिकेभ्यः संविधानस्य रक्षणस्य लोकतान्त्रिकमूल्यानां संरक्षणस्य संवैधानिकसर्वोच्चतायाः अक्षुण्णतायाश्च सङ्कल्पं स्वीकर्तुम् आह्वानं कृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani