Enter your Email Address to subscribe to our newsletters

नवदिल्ली, जूनमासस्य २५ दिनाङ्कः (हि.स.)। उत्कृष्ट-शिक्षकाणां सम्मानार्थं भारतसर्वकारेण राष्ट्रीय-शिक्षक-पुरस्कार-२०२६ कृते अन्तर्जाल-माध्यमेन आवेदनानि नामनिर्देशनानि च आमन्त्रितानि।
केन्द्रीय-शिक्षा-मन्त्रालयस्य अनुसारं विद्यालय-शिक्षा-साक्षरताविभागेन अस्य विषये विस्तृताः मार्गनिर्देशाः समयसारिणी च प्रकाशिताः। एतेषां पुरस्काराणां प्रमुखोद्देश्यं विद्यालयीय-शिक्षायाः गुणवत्तायाः उन्नयनं, छात्राणां सर्वाङ्गीण-विकासस्य प्रोत्साहनं च प्रति शिक्षकाणां अतुलनीययोगदानस्य मान्यतां प्रदातुम् अस्ति। अस्मिन् केन्द्रसर्वकारेण, राज्यसर्वकारैः, केन्द्रशासितप्रदेश-प्रशासनैः तथा स्थानीय-निकायैः सञ्चालितविद्यालयेषु कार्यरताः शिक्षकाः आवेदनं कर्तुं शक्नुवन्ति।
एतदतिरिक्तं मान्यताप्राप्त-शिक्षामण्डलैः सम्बद्धेषु अनुदानप्राप्तेषु निजीविद्यालयेषु च कार्यरताः पात्राः शिक्षकाः अपि निर्धारितप्रावधानानुसारम् आवेदनस्य योग्याः सन्ति।
पुरस्कार-प्रक्रियायाः सुचारुरूपेण सम्पादनार्थं शिक्षा-मन्त्रालयेन विविधाः कार्यक्रमाः निर्धारिताः। तेषु पात्राः शिक्षकाः जुलैमासस्य १० दिनाङ्कपर्यन्तं राष्ट्रीय-पुरस्कार-पटलस्य माध्यमेन स्वीयम् आवेदनं समर्पयितुं शक्नुवन्ति। तदनन्तरं स्वनामनिर्देशनस्य अन्तिमप्रस्तुतिः जुलाईमासस्य ११ तः १३ दिनाङ्कपर्यन्तं भविष्यति। जनपदस्तरीय-क्षेत्रीय-चयनसमितीनां चयनप्रक्रिया जुलाईमासस्य १४ तः २१ दिनाङ्कपर्यन्तं, राज्यीय-साङ्गठनिक-चयनसमितीनां प्रक्रिया जुलैमासस्य २२ तः २९ दिनाङ्कपर्यन्तं भविष्यति। पुरस्कार-वितरण-समारोहः सेप्टेम्बरमासस्य ४ तथा ५ दिनाङ्कयोः आयोजितः भविष्यति। एतेषाम् अतिरिक्तम् अन्येऽपि कतिपये कार्यक्रमाः निर्धारिताः सन्ति।
विस्तृत-मार्गनिर्देशान्, पात्रतामानदण्डान्, मूल्याङ्कन-प्रक्रियां तथा अन्यां आवश्यकसूचनां ज्ञातुम् आवेदनकर्तारः आधिकारिक-पटलं परिशीलयितुं शक्नुवन्ति।
उल्लेखनीयं यत् राष्ट्रीय-शिक्षक-पुरस्कारः प्रतिवर्षं तेषां शिक्षकाणां प्रदीयते, ये विद्यालयीय-शिक्षाक्षेत्रे न केवलम् उत्कृष्टतां प्राप्तवन्तः, अपितु स्वकीय-शिक्षणकार्ये नवाचारस्य कर्तव्यनिष्ठायाश्च अद्वितीयं उदाहरणं प्रस्तुतवन्तः।
Hindusthan Samachar / Divya Ranjan