शैक्षिक-सञ्चार-सङ्घस्य अन्तर्जाल-कार्यशाला आयोजिता
जोधपुरनगरम्, २५ जूनमास:। डिजिटल-शिक्षा, मूक्स-पाठ्यक्रमाणां तथा उच्च-शिक्षायाम् अध्यापकानां सहभागितायाः वर्धमानं महत्त्वं दृष्ट्वा शैक्षिक-सञ्चार-सङ्घेन वर्ष २०२६ कृते विशेषः प्रसार-कार्यक्रमः प्रारब्धः। अयं कार्यक्रमः डिजिटल-शिक्षाक्षेत्रे सीईसी-स
jodhpur


जोधपुरनगरम्, २५ जूनमास:। डिजिटल-शिक्षा, मूक्स-पाठ्यक्रमाणां तथा उच्च-शिक्षायाम् अध्यापकानां सहभागितायाः वर्धमानं महत्त्वं दृष्ट्वा शैक्षिक-सञ्चार-सङ्घेन वर्ष २०२६ कृते विशेषः प्रसार-कार्यक्रमः प्रारब्धः। अयं कार्यक्रमः डिजिटल-शिक्षाक्षेत्रे सीईसी-संस्थायाः तथा तस्याः विविध-उपक्रमान् प्रति जागरूकतां सहभागितां च वर्धयितुम् आयोजितः अस्ति।

अनेन उपक्रमेण सीईसी-संस्थायाः मूक्स-पाठ्यक्रमाणां तथा अन्येषां डिजिटल-शिक्षण-कार्यक्रमाणां व्यापकः प्रचारः, अधिका सहभागिता, नामाङ्कन-वृद्धिः, संस्थागत-सहयोगः तथा शैक्षणिक-सहभागिता च प्रवर्धिष्यते इति अपेक्षा वर्तते।

स्वस्य प्रसार-कार्यक्रमस्य अन्तर्गतं सीईसी-संस्थया ईएमआरसी-जोधपुरस्य सहयोगेन जयनारायण-व्यास-विश्वविद्यालयस्य अध्यापकानां कृते मूक्स-जागरूकता-विषयक-अन्तर्जाल-कार्यशालायाः आयोजनं कृतम्।

ईएमआरसी-जोधपुरस्य निदेशकः प्रो.महिपालसिंह-राठौडः आगामिनः वर्षस्य जनवरी-मासस्य सत्रात् शैक्षिक-सञ्चार-सङ्घस्य मूक्स-पाठ्यक्रमान् प्रारम्भयितुं गाढाम् अभिरुचिम् उत्साहं च प्रकटितवान्। कार्यशालायाः औपचारिक-समापनं धन्यवाद-ज्ञापनेन सम्पन्नम्।

उल्लेखनीयम् अस्ति यत् शैक्षिक-सञ्चार-सङ्घः भारतस्य विश्वविद्यालय-अनुदान-आयोगेन स्थापितेषु अन्तर-विश्वविद्यालय-केन्द्रेषु अन्यतमम् अस्ति। अस्य स्थापना उच्च-शिक्षायाः आवश्यकतानां पूर्त्यर्थं कृता।

स्वस्य विंशति-माध्यम-केन्द्राणां सुदृढ-जालस्य माध्यमेन सीईसी-संस्था स्वयं-मञ्चे मूक्स-पाठ्यक्रमाणां व्यवस्थित-विकासे, डीटीएच-वाहिनीषु प्रसारणार्थं शैक्षणिक-सामग्रीणां निर्माणे च सक्रियतया कार्यं करोति, येन उच्च-शिक्षायाः व्यापकः समानश्च प्रवेशः सुनिश्चितः भवेत्।

Hindusthan Samachar / अंशु गुप्ता