Enter your Email Address to subscribe to our newsletters

नवदेहली, २५ जूनमास: (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे संविधान-हत्या-दिवसस्य अवसरे १९७५ तमवर्षस्य आपत्कालस्य कालखण्डं भारतीय-लोकतन्त्रस्य कृष्णाध्यायः इति वर्णयन् अवदत् यत् अयं दिवसः लोकतन्त्रस्य, संविधानस्य, नागरिक-अधिकाराणां च रक्षणाय सदा प्रतिबद्धान् भवितुं प्रेरयति।
प्रधानमन्त्री सामाजिक-माध्यम-मञ्चे एक्स इत्यत्र अलिखत्—“संविधान-हत्या-दिवसः अस्मान् तस्य कृष्णकालस्य स्मरणं कारयति, यस्मिन् भारतीयं लोकतन्त्रं नितरां पददलितम् आसीत्। अयं दिवसः अस्मान् लोकतन्त्रस्य, संविधानस्य, नागरिक-अधिकाराणां च रक्षणाय सर्वदा प्रतिबद्धान् भवितुं प्रेरयति। आपत्कालस्य विरोधं कृतवन्तः सर्वाः विभूतयः मम सादरं प्रणामान् अर्हन्ति।”
एतस्य सह प्रधानमन्त्री संस्कृत-सुभाषितम् अपि समभागीकृतवान्—
स्वातन्त्र्यात् सुखमाप्नोति स्वातन्त्र्याल्लभते परम्।स्वातन्त्र्यान्निर्वृत्तिं गच्छेत् स्वातन्त्र्यात् परमं पदम्॥
अस्य सुभाषितस्य भावार्थः अस्ति यत् स्वातन्त्र्यादेव सुखस्य प्राप्तिः भवति, स्वातन्त्र्यादेव मनुष्यः परमं लक्ष्यं प्राप्नोति। स्वातन्त्र्यमेव सन्तोषस्य, आन्तरिकशान्तेः, जीवनस्य परमपदस्य च प्राप्तेः मार्गं प्रशस्तं करोति।
संविधान-हत्या-दिवसः प्रतिवर्षं जूनमासस्य २५ दिनाङ्के आचर्यते। भारत-सर्वकारेण १९७५ तमवर्षे अस्मिन् एव दिने तत्कालीन-प्रधानमन्त्रिणा इन्दिरागान्ध्या देशे घोषितस्य आपत्कालस्य स्मरणार्थं तस्य विरोधस्य च प्रतीकरूपेण अस्य दिवसस्य आचरणं प्रारब्धम्।
Hindusthan Samachar / Divya Ranjan