मुरादाबादस्य राधिका, भव्या, गीतिक्षा, गौरांशी तथा ख्यातियादव: इत्येताभिः स्वर्णपदकानि विजितानि
मुरादाबादनगरम्, २५ जूनमास:। इण्डो-नेपाल-अन्ताराष्ट्रिय-नृत्य-प्रतियोगितायां मुरादाबाद-नगरस्य बालिकाभिः उत्कृष्ट-प्रतिभायाः प्रदर्शनं कृत्वा पीतल-नगरस्य यशः वर्धितम्। शेरोन-नृत्य-अकादम्याः मुरादाबाद-शाखायाः निर्देशिका तान्या गुप्ता अवदत् यत् तस्याः
इंडो नेपाल इंटरनेशनल डांस चैपियनशिप में छाए मुरादाबाद के प्रतिभागी


मुरादाबादनगरम्, २५ जूनमास:। इण्डो-नेपाल-अन्ताराष्ट्रिय-नृत्य-प्रतियोगितायां मुरादाबाद-नगरस्य बालिकाभिः उत्कृष्ट-प्रतिभायाः प्रदर्शनं कृत्वा पीतल-नगरस्य यशः वर्धितम्।

शेरोन-नृत्य-अकादम्याः मुरादाबाद-शाखायाः निर्देशिका तान्या गुप्ता अवदत् यत् तस्याः निर्देशनस्य अन्तर्गतं गतदिनेषु नेपालदेशे आयोजितायाम् इण्डो-नेपाल-अन्ताराष्ट्रिय-नृत्य-प्रतियोगितायां मुरादाबादस्य राधिकासिंह:, भव्यासिंह:, गीतिक्षा गुप्ता, गौरांशी रस्तोगी तथा ख्यातियादव: इत्येताभिः स्वर्णपदकानि प्राप्तानि।

तया उक्तं यत् एताः सर्वाः प्रतिभासम्पन्नाः छात्राः स्वकीयया कठोर-परिश्रमेण, इच्छा तथा उत्कृष्ट-प्रदर्शनेन अन्ताराष्ट्रिय-मञ्चे भारतस्य गौरवं वर्धितवत्यः।

Hindusthan Samachar / Divya Ranjan