Enter your Email Address to subscribe to our newsletters

अररियानगरम्, जूनमासस्य २५ दिनाङ्कः (हि.स.)। लोकस्वास्थ्य-अभियन्त्रण-विभागस्य तत्त्वावधाने जलजीवन-अभियानस्य अन्तर्गतं गुरुवासरे रणीगञ्ज-प्रखण्डस्य हांसा-ग्रामपञ्चायते सुजलग्रामसंवाद-कार्यक्रमः आयोजितः।
अस्मिन् कार्यक्रमे भारतसर्वकारस्य जलशक्ति-मन्त्रालयस्य जलजीवन-अभियानस्य सचिवः दूरदृश्य-सम्मेलन-माध्यमेन सम्बद्धः अभवत्। अस्मिन्नवसरे जनपदाधिकारिणः विनोद-दूहनः अपि सहभागित्वा ग्रामवासिभिः सह प्रत्यक्षसंवादम् अकरोत्।
जनपदाधिकारिणा ग्रामवासिनां विचारा: गम्भीरतया श्रुताः। तेन ग्रामवासिनः जलापूर्तियोजनानां संरक्षणे तथा अनुरक्षणे सक्रियसहभागितां कर्तुं प्रोत्साहिताः। स उक्तवान् यत् जनसहभागितयैव योजनानां सम्यक् सञ्चालनं दीर्घकालिक-लाभश्च सुनिश्चितः भवितुमर्हति।
तेन उक्तं यत् अस्य कार्यक्रमस्य मुख्योद्देश्यं ग्रामीणक्षेत्रेषु शुद्ध-पेयजलस्य आपूर्तेः तथा तस्याः सतत-निरीक्षणस्य अनुरक्षणस्य च विषये जनान् जागरूकान् कर्तुम् अस्ति।
अवसरेऽस्मिन् ग्रामवासिभ्यः जलजीवन-अभियानस्य विविध-योजनानां तासाम् उद्देश्यानां प्रभावी-सञ्चालनस्य च विस्तृता सूचना प्रदत्ता। तथा च पेयजलापूर्ति-सम्बद्धेषु विविधविषयेषु ग्रामवासिभ्यः प्रत्यक्षरूपेण अभिप्रायाः अपि संगृहीताः।
कार्यक्रमे जनपदस्य प्रखण्डस्य च सर्वेषां विभागानाम् अधिकारिणः, ग्रामीण-जनप्रतिनिधयः तथा बहवः ग्रामवासिनः सहभागिनः अभवन्।
Hindusthan Samachar / Divya Ranjan