जीविकया सम्बद्धा सविता कुमारी आत्मनिर्भरा अभवत्, स्वकौशलेन विशिष्टं परिचयम् अलभत
भागलपुरम्, २५ जूनमास:। भागलपुर-जनपदस्म गोराडीह-प्रखण्डान्तर्गतायाः बिशनपुर-जिच्छो-ग्रामपञ्चायतस्य निवासिनी सविता कुमारी अधुना ग्रामीण-महिला-सशक्तीकरणस्य आत्म-निर्भरतायाश्च प्रेरणादायिनी दृष्टान्ता जाता अस्ति। या पूर्वं केवलं गृहकार्येषु संलग्ना आसी
सविता कुमारी


भागलपुरम्, २५ जूनमास:। भागलपुर-जनपदस्म गोराडीह-प्रखण्डान्तर्गतायाः बिशनपुर-जिच्छो-ग्रामपञ्चायतस्य निवासिनी सविता कुमारी अधुना ग्रामीण-महिला-सशक्तीकरणस्य आत्म-निर्भरतायाश्च प्रेरणादायिनी दृष्टान्ता जाता अस्ति। या पूर्वं केवलं गृहकार्येषु संलग्ना आसीत्, सा स्वपरिश्रमेण, दृढसंकल्पेन तथा जीविका-स्वयंसहायतासमूहस्य सहयोगेन न केवलं स्वकीयाम् आर्थिकस्थितिं सुदृढीकृतवती, अपितु समाजे सफल-महिलोद्यमिनी-रूपेण स्वीयां विशिष्टं परिचयमपि स्थापिता।

पूर्वं सविता कुमार्याः जीवनं सामान्य-ग्रामीण-महिलानामिव आसीत्। तस्याः परिवारस्य जीविका मुख्यतया तस्याः पत्युः अम्बुजसिंहस्य आये एव अवलम्बिता आसीत्। सीमित-आयस्य कारणात् परिवारस्य आवश्यकतानां पूर्तिः कठिनाभवत्। तस्मिन् समये सा रेशमा-जीविका-स्वयंसहायतासमूहे समागत्य स्वजीवने परिवर्तनस्य नूतनमार्गम् आरब्धवती।

समूहे सम्मिलितत्वानन्तरं सा नियमितरूपेण सञ्चयं कृतवती तथा समूहस्य सभासु सक्रियतया सहभागितामपि अकरोत्। जीविकया आयोजितेषु प्रशिक्षण-कार्यक्रमेषु सहभागित्वेन तस्यै वित्तीय-प्रबन्धनम्, उद्यमिता-विकासः, व्यवसाय-सञ्चालनम् तथा सामाजिक-जागरूकतायाः सम्बन्धिन्यः बह्व्यः महत्त्वपूर्णाः सूचनाः प्राप्ताः। एतेषां प्रशिक्षणानां प्रभावेण स्वान्तर्निहित-प्रतिभां ज्ञातुं तां व्यवसायरूपेण विकसितुं च तस्याः आत्मविश्वासः वर्धितः।

समूहाय धनागारतः ऋणं प्राप्ते सति सविता कुमारी प्रथमं पञ्चत्रिंशत्सहस्र-रूप्यकाणां ऋणं गृहीत्वा सौन्दर्य-प्रसाधन-केन्द्रस्य तथा वस्त्र-सीवन-कार्यस्य आरम्भम् अकरोत्। स्वकौशलस्य उपयोगेन सा ग्रामस्य महिलाभ्यः सौन्दर्य-प्रसाधन-सम्बद्धाः सेवाः प्रदातुम् आरब्धवती। तेन सह सीवन-यन्त्रस्य साहाय्येन महिलानां वस्त्राणां सीवनकार्यमपि प्रारब्धवती।

एतस्मिन्नेव काले तस्याः पतिः अम्बुजसिंहः पादत्राण-विक्रय-आपणम् आरब्धवान्। दम्पत्योः संयुक्त-प्रयत्नेन व्यवसायस्य विस्तारः निरन्तरं अभवत्। अधुना पर्यन्तं सविता कुमारी स्वयंसहायतासमूहात् विभिन्नेषु चरणेषु द्विलक्षाधिक-रूप्यकाणां ऋणं गृहीत्वा स्वस्वरोजगारस्य विस्तारं कृतवती। व्यवसायेन प्राप्तेन आयेन सा समये ऋणस्य परिशोधनम् अपि करोति, येन तस्याः विश्वसनीयता तथा सामाजिक-प्रतिष्ठा निरन्तरं वर्धते।

सविता कुमारी वदति यत् समूहात् प्राप्तं ऋणं प्रशिक्षणं च तस्याः जीवनाय नूतनां दिशं प्रदत्तवन्तौ। समये ऋण-परिशोधनस्य कारणेन आवश्यकतायाः समये पुनरपि सुलभतया ऋणं प्राप्यते, येन व्यवसायस्य विस्तारे सहायता भवति। अधुना तस्याः मासिक-आयः प्रायः त्रिंशत्सहस्रात् पञ्चत्रिंशत्सहस्र-रूप्यकपर्यन्तं वर्तते।

अस्याः आयायाः साहाय्येन सा स्वसन्तानानां शिक्षां, परिवारस्य स्वास्थ्यरक्षणं तथा अन्याः आवश्यकताः सुकरतया पूरयति। भविष्यस्य कृते सञ्चयमपि करोति, येन परिवारस्य आर्थिक-सुरक्षा आत्मविश्वासश्च वर्धेते। वर्तमाने सा स्वयमेव स्वस्य सौन्दर्य-प्रसाधन-केन्द्रस्य सञ्चालनं करोति तथा सीवन-कार्येण महिलाभ्यः वस्त्राणि निर्माति। तस्याः परिश्रमः, लग्नता तथा सेवाभावः ग्रामे तस्यै विशिष्टां प्रतिष्ठां प्रदत्तवन्तः। सा न केवलं सफलोद्यमिनी अस्ति, अपितु अन्यासां महिलानामपि प्रेरणास्रोतः अभवत्।

सविता कुमारी स्वस्य सफलतायाः श्रेयः स्वयंसहायतासमूहस्य सहयोगाय, उपलब्ध-संसाधनानां समुचित-उपयोगाय, निरन्तर-परिश्रमाय, संघर्षाय तथा जागरूकतायै ददाति। अद्य तस्याः सफलता समग्रस्य ग्रामस्य कृते प्रेरणायाः विषयः अभवत्। तस्याः उपलब्धिभ्यः प्रेरिताः अनेकाः महिलाः स्वयंसहायतासमूहेषु सम्मिल्य आर्थिक-आत्मनिर्भरतायाः दिशि दृढपदानि स्थापयन्ति।

Hindusthan Samachar / Divya Ranjan