Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, जूनमासस्य २५ दिनाङ्कः (हि.स.)। राजस्थानराज्यस्य बीज-जैविक-प्रमाणीकरणसंस्थायाः सञ्चालनमण्डलस्य द्व्यशीतितमा साधारणसभा गुरुवासरे पन्त-कृषिभवने आयोजिता। सभाया: अध्यक्षतां प्रमुखशासनसचिवा कृषि-उद्यानिकी-विभागस्य मञ्जूराजपाल-महोदया अकरोत्। अस्यां सभायां बीजोत्पादनं बीजप्रमाणी-करणव्यवस्था च अधिकां पारदर्शिनीं वैज्ञानिकीं कृषकहितैषिणीं च कर्तुम् उद्दिश्य अनेके महत्त्वपूर्णनिर्णयाः गृहीताः।
सभायां संस्थायाः अधिकारिणः, विशेषज्ञाः तथा प्रगतिशीलकृषकप्रतिनिधयः सहभागित्वा बीजोत्पादन-प्रमाणीकरण-सम्बद्धविषयेषु विचारविमर्शम् अकुर्वन्। कृषकप्रतिनिधी हंसराजमीणा तथा रणछोरपाटीदार: कृषकाणां समक्षम् उपस्थितान् व्यावहारिकसमस्यान्, समस्या: च प्रमुखतया प्रस्तुतवन्तौ, येषां विषये सञ्चालनमण्डलेन सकारात्मकनिर्णयाः गृहीताः।
सभायां निर्णीतं यत् बीजप्रमाणीकरणस्य अन्तर्गतं ग्रो-आउट-टेस्ट इत्यर्थं बीजनमूनानां सङ्ग्रहणं निर्धारित-वैज्ञानिकविधिनानुसारं विधिवत् क्रियते। अनेन परीक्षणप्रक्रियायाः गुणवत्ता, विश्वसनीयता तथा पारदर्शिता सुनिश्चिता भविष्यति।
कृषकेभ्यः प्रमाणीकरणपरिणामान् समये उपलब्धान् कर्तुम् बीजप्रयोगशालापरीक्षणं तथा जीओटी-नमूनापरीक्षणं समानान्तर-रूपेण सञ्चालयितुं निर्णयः कृतः। अनेन प्रमाणीकरणप्रक्रियायाः समयः न्यूनी-भविष्यति तथा कृषकानां स्वबीजानां विपणने वितरणे च सुविधा भविष्यति।
सञ्चालनमण्डलेन एतदपि निर्णीतं यत् यदि कस्यचित् कृषकस्य क्षेत्रे अनुमानितोत्पादनात् अधिका उपजः भवति, तर्हि तस्मै दशप्रतिशतपर्यन्तम् अतिरिक्त-रॉ-बीज-इण्टेक् अनुमन्यते। एषा व्यवस्था विशेषतः तेषां कृषकाणां कृते लाभकरी भविष्यति, ये आधुनिकप्रविधीनां उत्तम-कृषिप्रबन्धनस्य च माध्यमेन अधिकमुत्पादनं प्राप्नुवन्ति।
सभायां बीजप्रमाणीकरणार्थं प्रवर्तिते क्रॉप-कलान्तरे आवश्यकसंशोधनमपि अनुमोदितम्। अनेन विभिन्नसस्यानां बीजानि समये प्रमाणीकर्तुं शक्यन्ते तथा कृषकेभ्यः वपनकाले गुणवत्तायुक्तानि प्रमाणितबीजानि प्रदातुं सुविधा भविष्यति।
सभां सम्बोधयन्ती मञ्जूराजपालमहोदया अवदत् यत् राज्यसर्वकारः कृषकेभ्यः गुणवत्तायुक्तानि बीजानि प्रदातुं तथा बीजोत्पादनं प्रोत्साहयितुं प्रतिबद्धः अस्ति। तया उक्तं यत् प्रमाणीकरणव्यवस्थायां क्रियमाणैः सुधारैः कृषकाणां विश्वासः वर्धिष्यते तथा कृषिक्षेत्रे गुणवत्तायाः उत्पादकतायाश्च उन्नतिः भविष्यति।
सभायां सहभागीभूताः कृषकप्रतिनिधयः कृषकहिताय गृहीतानां निर्णयानां स्वागतं कृत्वा अवदन् यत् एतैः सुधारैः प्रदेशे बीजोत्पादन-प्रमाणीकरणव्यवस्था अधिकप्रभाविनी भविष्यति तथा कृषकेभ्यः समयबद्धाः पारदर्शिन्यः सेवाः उपलब्धाः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan