Enter your Email Address to subscribe to our newsletters

नवदेहली, २५ जूनमास:। केन्द्रीय-युवकार्य-एवं-क्रीडा-मन्त्री डॉ.मनसुख: माण्डवीया गुरुवासरे नवदेहल्यां राष्ट्रीय-डोप-परीक्षण-प्रयोगशालायाः समीक्षासभायाः अध्यक्षतां कृतवान्। अस्यां सभायां प्रयोगशालायाः कार्याणि, तांत्रिक-क्षमताः तथा भावि-योजनाः विस्तरेण चर्चिताः।
सभायां डॉ.माण्डवीया उक्तवान् यत् राष्ट्रीय-क्रीडासु तथा ‘खेलो इण्डिया’-प्रतियोगितासु भागं गृह्णतां क्रीडकाणां कृते डोपिङ्-निषेध-जागरूकता-सत्रेषु सहभागिता अनिवार्या भविष्यति। तेन उक्तं यत् क्रीडकाणां व्यावसायिक-जीवनस्य आरम्भिके एव चरणे डोपिङ्गस्य दुष्परिणामानां, तद्विषयक-नियमानां च ज्ञानं प्रदातुम् अत्यावश्यकम्, येन ते अनभिप्रेततया अपि डोपिङ्-उल्लङ्घनात् रक्षिताः भवेयुः।
‘नो योर मेडिसिन’ अनुप्रयोगः प्रादेशिक-भाषासु अपि उपलब्धः भविष्यति
क्रीडा-मन्त्री डोपिङ्-निषेध-जागरूकतायाः व्यापक-प्रसारार्थं ‘नो योर मेडिसिन’ इति चलदूरवाणी-अनुप्रयोगस्य प्रादेशिक-भाषासु अपि उपलब्धतायाः घोषणाम् अकरोत्।
तेन उक्तं यत् स्थानीय-भाषासु सूचना उपलब्धा भविष्यति चेत् क्रीडकाः, प्रशिक्षकाः तथा सहयोगि-कर्मचारिणः प्रतिबन्धित-द्रव्याणां विषये सम्यगवगमनं प्राप्स्यन्ति तथा समुचितनिर्णयान् ग्रहीतुं समर्थाः भविष्यन्ति।
अन्ताराष्ट्रिय-स्तरे प्रयोगशालायाः भूमिका वर्धिष्यते
डॉ. माण्डवीया उक्तवान् यत् भारतस्य लक्ष्यं राष्ट्रीय-डोप-परीक्षण-प्रयोगशालायाम् अन्ताराष्ट्रिय-क्रीडकाणां नमूनानां परीक्षणं वर्धयितुम् अस्ति। तेन उक्तं यत् प्रयोगशालायाः तांत्रिक-क्षमता तथा वैश्विक-मानदण्डानुरूपा कार्यप्रणाली ताम् अन्ताराष्ट्रिय-डोपिङ्-निषेध-व्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहितुं समर्थां करोति।
ग्रामेषु, विद्यालयेषु महाविद्यालयेषु च जागरूकता-प्रसारः भविष्यति
डॉ.माण्डवीया उक्तवान् यत् डोपिङ् भारतीय-क्रीडाक्षेत्रस्य गम्भीर-समस्या जाता अस्ति। तेन बलपूर्वकम् उक्तं यत् केवलया दण्डात्मक-कार्यवाह्या अस्याः समस्यायाः समाधानं न भविष्यति।
तेन निर्देशः प्रदत्तः यत् डोपिङ्-निषेध-जागरूकता-अभियानं ग्रामेषु, विद्यालयेषु, महाविद्यालयेषु तथा क्रीडा-संस्थासु विस्तारितव्यं, येन स्वच्छ-क्रीडायाः तथा स्वच्छ-क्रीडकानां संस्कृतिः प्रोत्साहिता भवेत्।
राष्ट्रीय-डोप-परीक्षण-प्रयोगशालायाः उपलब्धीनां प्रशंसा
सभायां राष्ट्रीय-डोप-परीक्षण-प्रयोग-शालायाः उपलब्धीनामपि समीक्षा कृता। भारतस्य एका एव विश्व-डोपिङ्-निषेध-अभिकरणेन मान्यता-प्राप्ता प्रयोगशाला विगतवर्षेषु स्वकीयां तांत्रिक-क्षमतां, वैज्ञानिक-विशेषज्ञतां तथा आधारभूत-संरचनां निरन्तरं सुदृढीकृतवती अस्ति।
एषा प्रयोगशाला प्रमुखासु अन्ताराष्ट्रिय-प्रतियोगितासु सहयोगं प्रदत्तवती, शुष्क-रक्त-बिन्दु-परीक्षण-प्रविध्यादिषु आधुनिक-तन्त्रेषु अपि कार्यं कृतवती, तथा डोपिङ्-निषेध-विज्ञानस्य आवश्यक-सन्दर्भ-सामग्रीणां निर्माणे महत्त्वपूर्णं योगदानम् अपि दत्तवती।
अस्यां सभायां बिहार-राज्यस्य उद्योग-क्रीडा-मन्त्री श्रेयसीसिंह:, क्रीडा-सचिवः हरिरञ्जनराव:, विभिन्न-राष्ट्रीय-क्रीडा-महासङ्घानां प्रतिनिधयः, वरिष्ठ-वैज्ञानिकाः तथा राष्ट्रीय-डोप-परीक्षण-प्रयोगशालायाः निदेशकः एवं मुख्य-कार्यकारी-अधिकारी डॉ. पी.एल.साहू सहिताः अन्येऽपि अनेकाः अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan