Enter your Email Address to subscribe to our newsletters

औरैयानगरम्, जूनमासस्य २५ दिनाङ्कः (हि.स.)। उत्तरप्रदेशस्य औरैया-जनपदे भारतीयजनतापक्षस्य महिला-प्रदेशाध्यक्षा राज्यसभासदस्या च गीताशाक्या उत्तरप्रदेश-भाजपायाः प्रदेशमहामन्त्रीपदे नियुक्ता इति घोषणायां जातायां क्षेत्रस्य भाजपाकार्यकर्तृषु हर्षोल्लासस्य तरंग: प्रसृत:। कञ्चौसी-क्षेत्रे भाजपाकार्यकर्तारः परस्परं मिष्टान्नं भोजयित्वा हर्षम् अभिव्यक्तवन्तः तथा सङ्घटन-नेतृत्वं प्रति कृतज्ञताम् अपि प्रकटितवन्तः।
गीताशाक्यायाः प्रदेशमहामन्त्रीपदे नियुक्तेः घोषणानन्तरमेव भाजपाकार्यकर्तृषु उत्साहपूर्णं वातावरणम् अभवत्। वरिष्ठ-भाजपानेता सन्तोषशुक्लः अवदत् यत् गीताशाक्यायाः सङ्गठने महत्त्वपूर्ण-दायित्वस्य प्रदानं पक्षस्य कार्यकर्तृणां कृते गौरवस्य विषयः अस्ति। तेन विश्वासः व्यक्तीकृतः यत् तस्याः नेतृत्वे सङ्घटनम् अधिकं सुदृढं भविष्यति।
अस्मिन्नवसरे भाजपामण्डलाध्यक्षः सोनूमिश्रः, दिबियापुर-सहकारी-सङ्घ-लिमिटेड-इत्यस्य अध्यक्षः सन्तोषशुक्लः, प्रधानः दिनेशराठौरः, भाजपानेतारः बीनूशुक्लः, वेदप्रकाशपोरवालः, प्रदीप-गुप्तः, लालापण्डितः, रामश्याम-शुक्लः, रामजीराठौरः, कन्हैया-राठौरः, कपिल-गुप्तः, सुरेशचन्द्रवर्मा इत्यादयः बहवः भाजपाकार्यकर्तारश्च उपस्थिताः आसन्। सर्वे परस्परं मोदकानि भोजयित्वा स्वहर्षम् अभिव्यक्तवन्तः।
Hindusthan Samachar / Divya Ranjan