Enter your Email Address to subscribe to our newsletters

लखनऊ, 25 जूनमासः (हि.स.)।
भारतीयजनतापक्षेण गुरुवासरे उत्तरप्रदेशस्य प्रदेशपदाधिकारीणां सूची प्रकाशिता। पक्षस्य प्रदेशाध्यक्षस्य पङ्कजचौधरीस्य दलमध्ये अष्ट महामन्त्रिणः, एकोनविंशतिः उपाध्यक्षाः तथा एकोनविंशतिः मन्त्रिणः नियुक्ताः। प्रदेशदलस्य सहैव भारतीयजनतापक्षेण सर्वेषां षण्णां क्षेत्रीयाध्यक्षानां मोर्चाध्यक्षानां च घोषणापि कृता। प्रदेशदले यत्र युवभ्यः विशेषप्राधान्यं दत्तं तत्रैव जातीयक्षेत्रीयसन्तुलनस्य अपि सम्यक् विचारः कृतः।
भारतीयजनतापक्षेण प्रदेशमहामन्त्रिपदेषु संजयरायः रामप्रतापसिंहचौहानश्च विना अन्ये षट् नूतनाः महामन्त्रिणः नियुक्ताः। राज्यसभासदस्या प्रदेशमहिलामोर्चाध्यक्षिका गीताशाक्या, युवमोर्चस्य राष्ट्रियदलस्य सदस्यः अभिजातमिश्रः, बाराबङ्कीजनपदस्य पूर्वसांसदः उपेन्द्ररावतः, पूर्वप्रदेशमन्त्री शङ्करलाललोधी, क्षेत्रीयदलस्य सदस्यौ दिलीपपटेलः राजेशचौधरी च प्रदेशमहामन्त्रिपदे नियुक्ताः।
पूर्वमन्त्री सुरेशराणा तथा नीरजसिंहः सहिताः एकोनविंशतिः उपाध्यक्षाः। प्रदेशदले भारतीयजनतापक्षेण एकोनविंशतिः उपाध्यक्षाः नियुक्ताः। तेषु पूर्वमन्त्री सुरेशराणा, सत्यपालसैनी, ब्रजबहादुरः, डॉ धर्मेन्द्रसिंहः, मोहितबेनीवालः, देवेशकोरी, प्रियङ्कारावतः च उपाध्यक्षपदे नियुक्ताः। एतेभ्यः अतिरिक्तं दुर्विजयशाक्यः, रमेशसिंहः, नीरजसिंहः, अर्चनामिश्रा, पूजापालः, शङ्करगिरिः, कामेश्वरसिंहः, डॉ कृतिकाअग्रवालः, सुरेशमौर्यः, राजेशयादवः, कृष्णबिहारीरायः तथा आलोकगुप्तः अपि उपाध्यक्षपदे नियुक्ताः।
अनिलयादवः प्रदेशमन्त्री नियुक्तः। भारतीयजनतापक्षेण अखिलभारतीयविद्यार्थीपरिषदः पूर्वप्रान्तसङ्गठनमन्त्री अनिलयादवः सहितः एकोनविंशतिः जनाः प्रदेशमन्त्रिपदे नियुक्ताः। पक्षस्य प्रकाशितसूच्यानुसारं विजयशिवहरे, बसन्तत्यागी, शिवभूषणसिंहः, सहजानन्दरायः, अङ्कुरशर्मा, अवधेशश्रीवास्तवः, विजयराजभरः, प्रमेन्द्रविश्वकर्मा तथा किरणलोधीनिषादः प्रदेशमन्त्रिपदे नियुक्ताः। एतेभ्यः अतिरिक्तं राकेशबिन्दः, सञ्चितासिंहचौहानः, रजनीपाण्डेयः, राहुलवाल्मीकि, महामेघानागरः, दीपमालासन्तोषी, सुहासिनीजायसवालः, यतेन्द्रशर्मा तथा आकाङ्क्षासोनकरः अपि मन्त्रिपदे नियुक्ताः।
दिनेशप्रतापसिंहः मुख्यप्रवक्तारूपेण नियुक्तः। भारतीयजनतापक्षेण दिनेशप्रतापसिंहः पक्षस्य मुख्यप्रवक्ता नियुक्तः। तथैव मनीषदीक्षितः प्रदेशमाध्यमसंयोजकः, हिमांशुराजपण्डितः प्रदेशसामाजिकमाध्यमसंयोजकः नियुक्तः। भारतदीक्षितः कार्यालयमन्त्री, अतुलअवस्थी कार्यालयसहमन्त्री तथा चौधरीलक्ष्मणसिंहः अपि कार्यालयसहमन्त्री नियुक्तः।
भारतीयजनतापक्षेण सर्वे क्षेत्रीयाध्यक्षाः परिवर्तिताः। प्रदेशपदाधिकारीणां घोषणया सहैव षण्णां क्षेत्रीयाध्यक्षानामपि घोषणा कृता। पूर्वस्थिताः सर्वे क्षेत्रीयाध्यक्षाः पदात् अपसारिताः। पक्षकार्यालयस्य प्रकाशितसूच्यानुसारं पश्चिमक्षेत्रस्य नवाबसिंहनागरः, ब्रजक्षेत्रस्य पूरनलाललोधी, कानपुरक्षेत्रस्य रामकिशोरसाहू क्षेत्रीयाध्यक्षाः नियुक्ताः। तथैव अवधक्षेत्रस्य अवधेशद्विवेदी, काशीक्षेत्रस्य अशोकचौरसिया, गोरखपुरक्षेत्रस्य विनोदरायः क्षेत्रीयाध्यक्षाः नियुक्ताः।
मोर्चाध्यक्षानां घोषणापि कृता। भारतीयजनतापक्षेण प्रदेशदलस्य सहैव मोर्चाध्यक्षानामपि घोषणा कृता। रोहितमिश्रः युवमोर्चाध्यक्षः, प्रकाशपालः पिछडामोर्चाध्यक्षः, देवेन्द्रसिंहः किसानमोर्चाध्यक्षः नियुक्तः। एतेभ्यः अतिरिक्तं अशोकरावतः अनुसूचितमोर्चाध्यक्षः, सरोजकुशवाहा महिलामोर्चाध्यक्षिका तथा विद्याभूषणगोंडः अनुसूचितजनजातिमोर्चाध्यक्षः नियुक्तः।
------------
Hindusthan Samachar / Dheeraj Maithani