मुख्यमंत्री योगी आदित्यनाथः 26 जून दिनांके देवरियाभ्रमणे , दास्यति विकास कार्याणामुपहारम्
देवरिया, 25 जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः षड्विंशतितमे जूनमासस्य दिने देवरियाजनपदस्य बरहजक्षेत्रस्य प्रवासं करिष्यति। स्वप्रस्तावितकार्यक्रमस्य अन्तर्गतं मुख्यमन्त्री बरांवस्थले आयोजिते समारोहे रुद्रपुर तथा बरहज विध
फोटो बैठक करते अधिकारी


देवरिया, 25 जूनमासः (हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः षड्विंशतितमे जूनमासस्य दिने देवरियाजनपदस्य बरहजक्षेत्रस्य प्रवासं करिष्यति। स्वप्रस्तावितकार्यक्रमस्य अन्तर्गतं मुख्यमन्त्री बरांवस्थले आयोजिते समारोहे रुद्रपुर तथा बरहज विधानसभाक्षेत्राभ्यां सम्बद्धानां विविधविकासपरियोजनानां लोकार्पणं शिलान्यासं च करिष्यति तथा जनसभां सम्बोधयिष्यति।

जनपदाधिकारी मधुसूदनहुल्गी गुरुवासरे अवदत् यत् निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री षड्विंशतितमे जूनमासस्य दिने प्रातः दशवादने त्रिंशन्मिनिटे गोरक्षनाथमन्दिरात् गोरखपुरनगरात् प्रस्थित्य प्रातः पञ्चपञ्चाशन्मिनिटाधिकदशवादने बरांवस्थितं हेलिपदम् आगमिष्यति। ततः प्रातः एकादशवादनात् मध्याह्ने द्वादशवादनपर्यन्तम् आयोजिते कार्यक्रमे सहभागित्वं करिष्यति। कार्यक्रमस्य समापनानन्तरं सः मध्याह्ने द्वादशवादने पञ्चमिनिटे हेलिपदं प्रत्यागमिष्यति तथा द्वादशवादने दशमिनिटे गोरखपुरनगरं प्रति प्रस्थितः भविष्यति।

मुख्यमन्त्रिणः प्रस्तावितागमनस्य सन्दर्भे जनपदाधिकारी मधुसूदनहुल्गी तथा पुलिसअधीक्षकः अभिजीत आर शङ्करः कलेक्ट्रेटसभागारे अधिकारिभिः सह उपवेशनं कृत्वा समस्तसज्जानां विस्तृतसमीक्षाम् अकुरुताम्। अस्यां बैठके कार्यक्रमस्थले स्वच्छता पेयजलव्यवस्था विद्युत्सुव्यवस्था अवरोधकव्यवस्था वाहननिक्षेपस्थानव्यवस्था यातायातनियन्त्रणं सुरक्षाव्यवस्था च इत्यादिषु विषयेषु विस्तरेण चर्चा अभवत्।

उपवेशने मुख्यविकासाधिकारी राजेशकुमारसिंहः मुख्यराजस्वाधिकारी वी के सिंहः मुख्यचिकित्साधिकारी डॉ ए के गुप्तः अपरजनपदाधिकारी प्रशासनस्य प्रेमनारायणसिंहः अपरजनपदाधिकारी वित्तराजस्वविभागस्य रामशङ्करः तथा विविधविभागानाम् अधिकारिणः उपस्थिताः आसन्।

--------

Hindusthan Samachar / Dheeraj Maithani