Enter your Email Address to subscribe to our newsletters

— गंगा घाटेषु उत्पन्नः आस्थायाः संमर्दः,निर्जलैकादशी चराचर जगतः स्वामी भगवते विष्णवे समर्पितः
वाराणसी,25 जूनमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिकनगरे वाराणस्यां (काश्यां) निर्जलैकादश्यां गुरुवासरे लक्षशः सनातनधर्मावलम्बिनः श्रद्धालवः पवित्रायां गङ्गानद्यां पुण्यस्नानं कृत्वा गङ्गातटेषु दानपुण्यकर्माणि च अकुर्वन्। स्नानपर्वणि गङ्गास्नानार्थं प्रातःकालादेव श्रद्धालवः गङ्गाघाटान् प्रति समागन्तुम् आरब्धवन्तः। गङ्गास्नानार्थं प्राचीनेषु दशाश्वमेधघाटे, राजेन्द्रप्रसादघाटे, शीतलाघाटे, अहल्याबाईघाटे, पञ्चगङ्गाघाटे, सम्मुखघाटे च महती जनसमूहेन परिपूर्णता अभवत्। स्नानार्थिनां बहुसंख्यत्वात् गौदोलियाक्षेत्रात् दशाश्वमेधघाटपर्यन्तं मेलोत्सवसदृशं दृश्यं समजायत। जनपदप्रशासनेन गङ्गातटात् आरभ्य श्रीविश्वनाथमन्दिरपर्यन्तं सुरक्षायाः व्यापकाः प्रबन्धाः कृताः आसन्।
शीतलाघाटस्य तीर्थपुरोहितः दिनेशोपाध्यायः अवदत् यत् सनातनधर्मे निर्जलैकादश्याः अत्यन्तं महत्त्वम् अस्ति। अयं दिवसः चराचरजगतः स्वामिने भगवान् विष्णवे समर्पितः अस्ति। एषा संवत्सरस्य सर्वासाम् एकादशीनां मध्ये सर्वाधिकमहत्त्वपूर्णा मन्यते। अस्यां तिथौ व्रतपालनेन भक्ताः महान् पुण्यलाभं प्राप्नुवन्ति तथा च संवत्सरस्य समस्तैकादशीव्रतानां फलमपि लभन्ते।
तीर्थपुरोहितेन उक्तं यत् एकादश्यां सनातनधर्मावलम्बिनः तण्डुलान् न खादन्ति, न च तण्डुलदानं कुर्वन्ति। अस्मिन् दिवसे फलानि, पुष्पाणि, आम्रफलानि, कदलीफलानि च ददति। जलपूर्णां घटिकां ब्राह्मणाय दानरूपेण समर्पयन्ति। ज्येष्ठमासस्य या एकादशी सा ‘निर्जलैकादशी’ ‘भीमैकादशी’ इति नाम्नापि प्रसिद्धा अस्ति। निर्जलैकादशीव्रतं मनसः संयमं शिक्षयति तथा शरीराय नूतनां शक्तिं ददाति।
पौराणिकमान्यतानुसारम् अस्याः एकादश्याः ब्रह्महत्यासहितानां समस्तपापानां शमनशक्तिः विद्यते। अस्मिन् दिवसे मनसा, कर्मणा, वाचा च कस्यापि पापकर्मणः आचरणात् परिहर्तव्यं प्रयत्नेन भवेत्। तथा च तामसिकाहारात्, परनिन्दायाः, अन्येषाम् अपमानाच्च दूरं वर्तितव्यम्। भक्तिपूर्वकं व्रतमिदं पालनात् व्रती कोटिगवां दानसमं पुण्यफलं प्राप्नोति।
Hindusthan Samachar / Dheeraj Maithani