जेपी-नड्डा-महोदयेन सह विष्णुदेव-साय-महोदयस्य साक्षात्कारः, स्वास्थ्यसेवाः कृषकाणां कृते च खाद-बीज-उपलब्धतां विषयीकृत्य विस्तृता चर्चा अभवत्
नवदेहली, २५ जूनमासः (हि.स.)। छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवसायः गुरुवासरे नवदेहल्यां केन्द्रीय-स्वास्थ्य-परिवारकल्याण-मन्त्री रसायन-उर्वरक-मन्त्री च जेपीनड्डा-महोदयेन तस्य निवासस्थाने साक्षात्कारं कृतवान्। अस्मिन् अवसरे उभयोः मध्ये जनस्वा
केंद्रीय स्वास्थ्य मंत्री जेपी नड्डा से मिले मुख्यमंत्री विष्णुदेव साय,


नवदेहली, २५ जूनमासः (हि.स.)। छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवसायः गुरुवासरे नवदेहल्यां केन्द्रीय-स्वास्थ्य-परिवारकल्याण-मन्त्री रसायन-उर्वरक-मन्त्री च जेपीनड्डा-महोदयेन तस्य निवासस्थाने साक्षात्कारं कृतवान्। अस्मिन् अवसरे उभयोः मध्ये जनस्वास्थ्यं, चिकित्सीय-अधोसंरचना, औषध-उर्वरक-क्षेत्रं इत्येतैः सह विविधविभागीय-समसामयिकविषयेषु विस्तृता चर्चा अभवत्।

मुख्यमन्त्री साय-महोदयः केन्द्रीय-मन्त्रिणम् अवगतवान् यत् छत्तीसगढ़-सर्वकारः स्वास्थ्यसेवानां विस्ताराय सुदृढीकरणाय च निरन्तरं कार्यं करोति। विशेषतः दूरस्थेषु ग्रामीण-जनजातीय-क्षेत्रेषु गुणवत्तायुक्ताः स्वास्थ्यसुविधाः प्रापयितुं चिकित्सालयाः, चिकित्सामहाविद्यालयाः अन्ये चिकित्सा-संस्थानानि च सुदृढानि क्रियन्ते। तेन उक्तं यत् राज्यसर्वकारस्य प्रयत्नः अस्ति यत् प्रदेशस्य नागरिकाः स्वराज्ये एव उत्तमचिकित्सां आधुनिक-स्वास्थ्य-सुविधाश्च प्राप्नुयुः। सभायां कृषिक्षेत्रस्य उर्वरकक्षेत्रस्य च विषयेष्वपि चर्चा कृता।

तेन केन्द्रीयमन्त्रिणे सूचितं यत् राज्ये कृषकाणां कृते उर्वरकस्य बीजानां च पर्याप्ता समयोचिता च उपलब्धिः सुनिश्चेतुं स्पष्टनिर्देशाः प्रदत्ताः सन्ति। सर्वकारः एतत् सुनिश्चितं करोति यत् कृषकाः कस्यापि प्रकारस्य समस्यायाः सामना न कुर्वन्तु तथा खरीफ-ऋतौ आवश्यक-कृषि-आदानानां आपूर्तिः सुचारुरूपेण प्रवर्तेत।

मुख्यमन्त्री उक्तवान् यत् अधिकारिभ्यः निर्देशाः दत्ताः सन्ति यत् खाद-वितरण-व्यवस्थायाः उपरि सततं निरीक्षणं क्रियताम् तथा कालाबाजारी, संचयनदोषः, उपेक्षा वा कदापि न सह्यताम्। तेन सह ग्रामे ग्रामे अभियानं सञ्चालयित्वा कृषकान् आधुनिक-कृषि-प्रौद्योगिकीभिः सम्बद्धान् कर्तुं नवीन-प्रविधीनां स्वीकरणाय प्रेरयितुं च निर्देशाः प्रदत्ताः। तेन एतदपि अवगतं कारितं यत् राज्यसर्वकारः नैनो-यूरिया तथा नैनो-डीएपी इत्येतयोः उपयोगं प्रोत्साहयति। कृषकान् तयोः लाभान् ज्ञापयितुं व्यापक-जागरूकता-अभियानानि सञ्चाल्यन्ते, येन कृषौ उत्पादनक्षमता वर्धेत, व्ययः न्यूनीभवेत्, कृषि च अधिक-लाभप्रदा भवेत्।

मुख्यमन्त्री साय-महोदयः उक्तवान् यत् छत्तीसगढ़-सर्वकारः केन्द्र-सर्वकारस्य पूर्णसहयोगेन स्वास्थ्य-कृषि-जन-कल्याण-क्षेत्रेषु विकासस्य नवीनां गतिं दातुं निरन्तरं प्रयतते। राज्यस्य समग्र-विकासाय केन्द्र-राज्ययोः मध्ये उत्तमः समन्वयः अधिकं सुदृढः क्रियते।

केन्द्रीयमन्त्री जेपी-नड्डा-महोदयः छत्तीसगढ़े स्वास्थ्यसेवानां विस्तारस्य, कृषकहिताय क्रियमाणानां उपायानां तथा जनकल्याणार्थं कृतानां प्रयासानां प्रशंसाम् अकरोत्। तेन स्वास्थ्यक्षेत्रे अन्येषु विकासात्मक-क्षेत्रेषु च केन्द्र-सर्वकारस्य पक्षतः सर्वसम्भव-सहयोगस्य आश्वासनं दत्तम्।

Hindusthan Samachar / Divya Ranjan