शिमलानगरस्य ऐतिहासिकं वाइल्डफ्लावर-हॉल पञ्चत्रिंशद्वर्षीय-लीज-आधारेण प्रदास्यति सुक्खू-सर्वकारः, विश्वस्य प्रमुख-आतिथ्य-प्रतिष्ठानानि आमन्त्रितानि
शिमलानगरम्, २५ जूनमासः (हि.स.)। राजधानी-शिमलानगरस्य समीपे देवदारुवृक्षाणां सघनवनेषु समुद्रतलात् ८,२५० पदोन्नतौ स्थितं ऐतिहासिकं वाइल्डफ्लावर-हॉल इति प्रसिद्धं सम्पत्तिस्थलं प्रति हिमाचलप्रदेशस्य सुक्खू-सर्वकारेण महत्त्वपूर्णं निर्णयं कृतम्। दीर्घका
वाइल्ड फ्लावर हॉल : फाइल फोटो


शिमलानगरम्, २५ जूनमासः (हि.स.)। राजधानी-शिमलानगरस्य समीपे देवदारुवृक्षाणां सघनवनेषु समुद्रतलात् ८,२५० पदोन्नतौ स्थितं ऐतिहासिकं वाइल्डफ्लावर-हॉल इति प्रसिद्धं सम्पत्तिस्थलं प्रति हिमाचलप्रदेशस्य सुक्खू-सर्वकारेण महत्त्वपूर्णं निर्णयं कृतम्। दीर्घकालिक-विधिक-संघर्षानन्तरं अस्य प्रतिष्ठित-सम्पत्तेः स्वामित्वम् अधिगम्य राज्यसर्वकारः अधुना एतत् पञ्चत्रिंशद्वर्षीय-लीज-आधारेण प्रदातुं सज्जः अस्ति। एतदर्थं वैश्विकस्तरे निविदाः आमन्त्रिताः सन्ति। अत्र विश्वस्य प्रमुख-आतिथ्य-प्रतिष्ठानानां मध्ये स्पर्धा भविष्यति।

राज्यस्य पर्यटन-नागरिक-विमानन-विभागेन छराबडास्थितं एतत् विलासमयं धरोहर-सम्पत्तिस्थलं सञ्चालन-प्रबन्धन-परिपालन- आधारेण लीजरूपेण प्रदातुं निविदाः प्रकाशिताः। प्रस्ताविता लीज-अवधिः पञ्चत्रिंशद्वर्षाणि भविष्यति, यस्मिन् आदौ त्रिंशद्वर्षाणि ततः अनन्तरं पञ्चवर्षीय-विस्तारः समाविष्टः अस्ति।

निविदाशर्तानुसारम् इच्छुक-निर्माणीभिः २४ कोटिरूप्यकाणां निविदा-सुरक्षा-धनराशिः निक्षेपणीया। निविदा-कर्गदस्य मूल्यं ५ लक्षरूप्यकाणि निर्धारितम् अस्ति। जूनमासस्य २४ दिनाङ्कात् एक-मासात्मकः स्थल-निरीक्षण-कालः आरब्धः। जुलाईमासस्य १ दिनाङ्के पूर्व-निविदा-सम्मेलनम् आयोजितं भविष्यति, जुलाईमासस्य २४ दिनाङ्के तु तकनीकी-निविदाः उद्घाटिताः भविष्यन्ति। सफल-निविदादातुः नाम अगस्तमासस्य २२ दिनाङ्के घोषयितुं सम्भावना वर्तते।

राज्यसर्वकारस्य विश्वासः अस्ति यत् देशस्य प्रतिष्ठितेषु पर्वतीय-विलास-पर्यटन-केन्द्रेषु अन्यतमात् वाइल्डफ्लावर-हॉलत: पर्याप्तं राजस्वम् उपार्जयिष्यते तथा च अस्य ऐतिहासिक-परिचयः अन्ताराष्ट्रिय-प्रतिष्ठा च अक्षुण्णा भविष्यतः।

पञ्चाशीतिकक्षयुक्ते अस्मिन् पञ्चतारक-विलास-आवासे स्पा, जलतरणकुण्डम्, व्यायामशाला, भोजसभागारः इत्यादयः आधुनिक-सुविधाः सन्ति। प्रायः ७७,४७१ वर्गमीटर-क्षेत्रे विस्तीर्णायां अस्यां सम्पत्तौ २,२०० अधिकाः वृक्षाः सन्ति, येषु अधिकांशाः परिपक्वाः देवदारुवृक्षाः सन्ति।

वाइल्डफ्लावर-हॉल-इत्यस्य १२३ वर्षप्राचीनः गौरवशाली इतिहासः

वाइल्डफ्लावर-हॉल-इय्यस्य इतिहासः १९०२ तमवर्षात् आरभते। तस्मिन् काले भारते ब्रिटिश-सेनायाः प्रधान-सेनापतिना लॉर्ड-किचनरेण अस्य निर्माणं कारितम्। १९०९ तमे वर्षे तस्य इङ्ग्लैण्ड-देशं प्रति प्रत्यागमनानन्तरम् एषा सम्पत्तिः एकस्य ब्रिटिश-दम्पत्योः अधीना अभवत्। पश्चात् उपनिवेश-शासनकाले एतत् भवनम् आतिथ्यगृहत्वेन सञ्चालितम्।

स्वातन्त्र्यानन्तरम् एषा सम्पत्तिः केन्द्रसर्वकारस्य अधीना आसीत्। १९७३ तमवर्षे च हिमाचलप्रदेश-पर्यटन-विकास-निगमाय हस्तान्तरिता। किन्तु १९९३ तमवर्षे भीषण-अग्निकाण्डेन मूलम् ऐतिहासिकं भवनं पूर्णतया विनष्टम्।

अग्निकाण्डानन्तरं हिमाचलप्रदेश-सर्वकारेण पुनर्निर्माण-सञ्चालनयोः कृते ईस्ट-इण्डिया-होटेल्स-लिमिटेड् इति ओबेरॉय-समूहस्य मूल-निर्माण्या सह सहभागिता कृता। किन्तु तत्कालीन-भाजपा-सर्वकारेण २००२ तमवर्षस्य मार्चमासस्य ६ दिनाङ्के एषा सन्धि: समाप्ता।

ततः आरभ्य विधिक-विवादः हिमाचल-प्रदेश-उच्चन्यायालयात् सर्वोच्च-न्यायालयपर्यन्तं गतः तथा च द्वौ दशकौ अधिकं कालं यावत् प्रवृत्तः।

२०२४ तमवर्षस्य फरवरीमासे सर्वोच्चन्यायालयेन हिमाचलप्रदेश-सर्वकारस्य पक्षे निर्णयः प्रदत्तः तथा वाइल्डफ्लावर-हॉल-इत्यस्य स्वामित्वं नियन्त्रणं च राज्यसर्वकाराय समर्पयितुम् आदेशः प्रदत्तः। ततः २०२५ तमवर्षस्य मार्चमासस्य ३१ दिनाङ्के राज्यसर्वकारेण सम्पत्तेः पूर्णनियन्त्रणं स्वहस्ते स्वीकृतम्।

लीज-प्रक्रियायाः सम्पन्नतापर्यन्तम् ओबेरॉय-समूहाय अस्थायी-व्यवस्थया होटल-सञ्चालनस्य अनुमतिः प्रदत्ता अस्ति। अस्मिन् काले पर्यटन-निदेशकः सम्पत्तेः प्रशासकरूपेण नियुक्तः अस्ति।

Hindusthan Samachar / Divya Ranjan