Enter your Email Address to subscribe to our newsletters

हमीरपुरम्, 25 जूनमासः (हि.स.)।
मादकद्रव्यदुरुपयोगस्य अवैधतस्कर्याः च विरुद्धे अन्ताराष्ट्रियदिवसस्य तथा नशानिवारणसप्ताहस्य उपलक्ष्ये जनपदप्रशासनेन पुलिसविभागेन च गुरुवासरे प्रातःकाले हीरानगरस्य चिल्ड्रन्सपार्कात् पक्काभरोचतुष्पथपर्यन्तं लघुमैराथनधावनस्पर्धायाः आयोजनं कृतम्।
अस्यां लघुमैराथनस्पर्धायाम् उपायुक्ता गन्धर्वाराठौड, पुलिसअधीक्षकः बलवीरसिंहः, अपरजनपदायुक्तः अभिषेककुमारगर्गः, एसीटूडिसी चिरागशर्मा, मुख्यचिकित्साधिकारी डॉ अजयअत्री, वनमण्डलाधिकारी अङ्कितसिंहः, जनपदकल्याणाधिकारी चमनलालशर्मा, उपपुलिसअधीक्षकः नितिनचौहानः, अपरजनपदपरियोजनाशिक्षाधिकारी राजेन्द्रशर्मा, अन्ये बहवः अधिकारिणः, नगरस्य गणमान्यनागरिकाश्च बालकैः, युवभिः, अन्यैः धावकैः सह उत्साहेन धावितवन्तः।
महिलानां पुरुषाणां च पृथक् आयुवर्गद्वये आयोजितायाः अस्याः लघुमैराथनस्पर्धायाः हरितध्वजप्रदर्शनात् पूर्वं उपायुक्तया सर्वेभ्यः नशाविरोधस्य शपथः प्रदत्ता। पुलिसअधीक्षकेण अपि बालकान् युवानश्च नशातः दूरं स्थातुं प्रेरिताः। स्पर्धासमाप्तौ पक्काभरोचतुष्पथे विजेतृभ्यः नगदपुरस्काराः अपि प्रदत्ताः।
कन्यानाम् षोडशवर्षात् न्यूनायुवर्गे उच्चविद्यालयस्य चौकीजमवालां छात्रा कामिनी प्रथमस्थानं प्राप्तवती। हिमअकादमीविद्यालयस्य प्रियांशीवशिष्ठा द्वितीयस्थानं, चौकीजमवालां विद्यालयस्य धनेश्वरी तृतीयस्थानं, तस्यैव विद्यालयस्य शबनम चतुर्थस्थानं, मनीता च पञ्चमस्थानं प्राप्तवती।
षोडशवर्षात् न्यूनबालकवर्गे हिमअकादमीविद्यालयस्य रकुलः प्रथमस्थानं, वरिष्ठमाध्यमिकविद्यालयस्य हमीरपुरस्य पङ्कजखरयालः द्वितीयस्थानं, सिल्वरबेल्सविद्यालयस्य अर्पितः तृतीयस्थानं, न्यूगुरुकुलविद्यालयस्य कौशलठाकुरः चतुर्थस्थानं, नक्षचौहानः पञ्चमस्थानं प्राप्तवान्।
षोडशवर्षाधिकायुवर्गे डिग्रीमहाविद्यालयस्य राशि प्रथमस्थानं, तस्यैव महाविद्यालयस्य सुहानी द्वितीयस्थानं, धलोटस्य शिवाली तृतीयस्थानं, डिग्रीमहाविद्यालयस्य ऋचा चतुर्थस्थानं, कुठेडाविद्यालयस्य शाइन पञ्चमस्थानं प्राप्तवती।
पुरुषवर्गे रोहडूक्षेत्रस्य आर्यनः प्रथमस्थानं, तालक्षेत्रस्य पट्टियांग्रामस्य आदित्यः द्वितीयस्थानं, ककरूग्रामस्य नवीनः तृतीयस्थानं, कुठेडाक्षेत्रस्य उबकग्रामस्य अतुलः चतुर्थस्थानं, अवाहदेवीग्रामस्य दीपकः पञ्चमस्थानं प्राप्तवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani