Enter your Email Address to subscribe to our newsletters

हमीरपुरम्, 25 जूनमासः (हि.स.)।
बहुतकनीकीमहाविद्यालये बडू हमीरपुरे शनिवासरे सप्तविंशतितमे जूनमासस्य दिने महत् जीविकामहोत्सवः आयोज्यते। अस्मिन् महोत्सवे निगमक्षेत्रस्य अनेकाः प्रमुखाः संस्थाः युवानां साक्षात्कारान् करिष्यन्ति।
सिटीग्रुप तथा सीटीविश्वविद्यालयेन बहुतकनीकीमहाविद्यालयस्य सहकार्येण आयोजितस्य अस्य महतः रोजगारमहोत्सवस्य उद्घाटनं हिमाचलप्रदेशस्य नगरग्रामनियोजन आवास तकनीकीशिक्षा व्यावसायिक औद्योगिकप्रशिक्षणमन्त्री राजेशधर्माणी करिष्यति।
निर्धारितकार्यक्रमानुसारं राजेशधर्माणी शनिवासरे प्रातः प्रायः एकादशवादने बहुतकनीकीमहाविद्यालयस्य परिसरम् आगमिष्यति। रोजगारमहोत्सवस्य उद्घाटनानन्तरं मध्याह्ने प्रायः एकवादने सः स्वस्य विधानसभाक्षेत्रं घुमारवीं प्रति प्रस्थितः भविष्यति।
सिटीग्रुपतः प्राप्तसूचनानुसारं बडूस्थले आयोजिते महति रोजगारमहोत्सवे पञ्चविंशत्यधिकाः संस्थाः युवानां साक्षात्कारान् करिष्यन्ति तथा चयनितेभ्यः युवभ्यः तत्रैव नियुक्तिपत्राणि प्रदास्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani