Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, २५ जूनमासः (हि.स.)। भारतीय-ज्ञान-परम्परायाः, संस्काराणां, कौशलाधारित-शिक्षायाश्च संवर्धनार्थं भारतीयशिक्षापरिषदः हरिद्वार-क्षेत्रस्य शिक्षकाणां कृते आयोजितस्य द्विदिवसीय-प्रशिक्षण-कार्यक्रमस्य समापनम् अभवत्। अस्मिन् अवसरे स्वामीरामदेवः अवदत् यत् भारतस्य औपनिवेशिक-मानसिकतायाः तथा मैकाले-प्रणीतायाः शिक्षाव्यवस्थायाः वास्तविक-मुक्तेः मार्गः भारतीय-शिक्षा-परिषद्वत् शिक्षापद्धत्याः माध्यमेन एव गच्छति, यस्यां शिक्षकाणां भूमिका सर्वाधिकं महत्त्वपूर्णा अस्ति।
कन्यागुरुकुले आयोजिते अस्मिन् प्रशिक्षण-कार्यक्रमे उत्तराखण्डात्, पश्चिम-उत्तरप्रदेशात्, आसामात्, हरियाणातः, हिमाचलप्रदेशात् च आगताः २५० तः अधिकाः शिक्षकाः सहभागित्वम् अकुर्वन्। प्रशिक्षणस्य प्रथमः चरणः २० तथा २१ जूनमासयोः कक्षा १ तः ५ पर्यन्तं शिक्षकाणां कृते, द्वितीयः चरणः २३ तथा २४ जूनमासयोः कक्षा ६ तः ८ पर्यन्तं शिक्षकाणां कृते आयोजितः।
भारतीय-शिक्षा-परिषदः अध्यक्षः तथा निवृत्तः प्रशासनिक-अधिकारी एन.पी.सिंहः प्रशिक्षणावसरे शिक्षकान् कौशलाधारित-शिक्षायाः, भारतीय-ज्ञान-परम्परायाः, आधुनिक-शिक्षण-पद्धतीनां च समन्वयस्य विषये अवगतवान्। तेन उक्तं यत् भारतीय-शिक्षा-परिषद् तादृशान् विद्यार्थिनः निर्मातुम् इच्छति, ये भविष्ये राष्ट्र-निर्माणस्य सशक्ताः वाहकाः भविष्यन्ति तथा विकसितस्य वैभवशालिनः भारतस्य निर्माणे स्वमहत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।
प्रशिक्षण-शिविरस्य समापनावसरे शिक्षकान् सम्बोधयन् स्वामीरामदेवः अवदत् यत् राष्ट्रस्य समाजस्य च निर्माणे शिक्षकस्य भूमिका सर्वाधिकी निर्णायिका भवति। शिक्षकः एव अग्रिम-वंशानां चिन्तनस्य, संस्काराणां, व्यक्तित्वस्य च आधारशिलां स्थापयति।
तेन उक्तं यत् भारतीय-शिक्षा-परिषदः शिक्षाव्यवस्था विद्यार्थिनः केवलं पुस्तकीय-ज्ञानपर्यन्तं सीमितान् न करोति, अपितु तान् भारतीय-संस्कृत्या, नैतिक-मूल्यैः, कौशलैः, राष्ट्रभावनया च संयोजयति।
प्रशिक्षण-कार्यक्रमे हिन्दी, आङ्ग्लभाषा, बालवाटिका, गणितम्, विज्ञानम्, सामाजिक-विज्ञानम्, संस्कृतम् तथा ‘द वर्ल्ड अराउण्ड अस’ इत्यादिषु विषयेषु विशेषज्ञ-संसाधन-व्यक्तिभिः शिक्षकाणां कृते विस्तृतं प्रशिक्षणं प्रदत्तम्।
Hindusthan Samachar / Divya Ranjan