Enter your Email Address to subscribe to our newsletters

हिसारनगरम्, २६ जूनमासः (हि.स.)। अत्रस्थे गुरुजम्भेश्वर-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य शिक्षणखण्ड-७ इत्यत्र शुक्रवासरे समन्वित-बीसीए-एमसीए-पाठ्यक्रमे प्रवेशार्थं प्रवेशपरीक्षायाः आयोजनम् अभवत्। विश्वविद्यालयस्य कुलसचिवः डॉ.विजयकुमारः परीक्षा-सञ्चालनस्य निरीक्षणम् अकरोत्। सः अवदत् यत् प्रवेशपरीक्षा पूर्ण-पारदर्शितया निष्पक्षतया च सम्पन्ना। विश्वविद्यालय-प्रशासनेन परीक्षायाः सफलसञ्चालनार्थं सर्वाः आवश्यक-व्यवस्थाः पूर्वमेव सुनिश्चिताः कृताः। तेनोक्तं यत् परीक्षाकाले अभ्यर्थिषु तेषाम् अभिभावकेषु च विशेषः उत्साहः दृष्टः।
विभागाध्यक्षः प्रो.ओ.पी.सांगवानः शुक्रवासरे अवदत् यत् समन्वित-बीसीए-एमसीए-कार्यक्रमस्य आहत्य १८० आसनानां कृते प्रवेशपरीक्षायाः आयोजनम् अभवत्। अस्मिन् पाठ्यक्रमे प्रवेशार्थं ५४७ अभ्यर्थिनः आवेदनं कृतवन्तः, तेषु ३५९ अभ्यर्थिनः प्रवेशपरीक्षायाम् उपस्थिताः अभवन्। सः अवदत् यत् बीसीए-एमसीए-पाठ्यक्रमे प्रवेशार्थं प्रथम-परामर्श-सत्रस्य आयोजनम् २ जुलाई-दिनाङ्के विश्व-विद्यालयस्य शिक्षणखण्ड-६ इत्यत्र भविष्यति। निरीक्षणकाले परीक्षा-नियन्त्रकः प्रो.यशपालसिङ्गला अपि तेन सह उपस्थितः आसीत्।
Hindusthan Samachar / Divya Ranjan