Enter your Email Address to subscribe to our newsletters



कार्बी-आङ्ग्लोङ्गः (असमप्रदेश:), २६ जूनमासः (हि.स.)। केन्द्रसर्वकारस्य पूर्वोत्तर-क्षेत्र-विकास-मन्त्रालयस्य ‘उत्तर-पूर्व-विशेष-आधारभूत-संरचना-विकास-योजना’ अन्तर्गतं असमराज्यस्य पूर्व-कार्बी-आङ्ग्लोङ्ग-गोलाघाट-जनपदयोः संयोजनार्थं धनश्रीनद्याः उपरि निर्मितः नूतनः आरसीसी-सेतुः तथा पक्व-बारहमासी-मार्गः स्थानीयानां चत्वारिंशदधिकग्रामाणां प्रायः पञ्चचत्वारिंशत्सहस्रजनानां जीवनं सम्पूर्णतया परिवर्तितवान्। अस्य आधारभूत-संरचना-परियोजनायाः सम्पन्नतया स्थानीय-जनजातीय-समुदायानां ग्रामवासिनां च जीवनं सुगमं, सुरक्षितं समृद्धं च अभवत्।
एषा योजना स्थानीय-ग्रामवासिनां, छात्राणां, दैनिक-श्रमिकाणां लघु-व्यापारिणां च कृते वरदानतुल्या सिद्धा अभवत्। अस्मिन् प्रदेशे जातस्य अस्य व्यापक-परिवर्तनस्य विषये स्थानीय-निवासी नुवलश्यामः अवदत् यत्, गतत्रिंशत्-चत्वारिंशद्वर्षेभ्यः वयं केवलं वेणु-निर्मित-अस्थायी-सेतुम् आश्रित्य जीवनं यापयामः स्म। सम्पूर्णः मार्गः असम्यक्, अपक्व: मृत्तिकामयश्च आसीत्, येन सामान्यदिवसेष्वपि गमनागमनं अत्यन्तं कठिनम् आसीत्।
सः अवदत् यत्, वर्षाकाले नागालैण्डस्य लायसैङ्ग-प्रदेशात् प्रवहन्त्यां बारहमासी-धनश्रीनद्यां पूरः आगच्छति स्म, तदा सम्पूर्णः अयं प्रदेशः देशस्य अन्येभ्यः भागेभ्यः पूर्णतया विच्छिन्नः भवति स्म। तस्मिन् काले रोगिणः, वृद्धाः, गर्भिण्यश्च चिकित्सालयं नेतुं लघुनौकानाम् आश्रयः स्वीकर्तव्यः भवति स्म। अधुना सर्वकारेण अस्याः नद्याः उपरि दृढः आरसीसी-सेतुः तथा पक्क-बारहमासी-मार्गः निर्मितः, येन दशकानां पुरातनी पीडा मुख्यधारायाः पृथक्करणस्य समस्या च समाप्ता अभवत्।
अस्याः परियोजनायाः पूर्वं मार्गस्य सेतोश्च अभावात् कृषकाणां कृष्युत्पादनानि समये महद्भ्यः विपण्येभ्यः न प्राप्नुवन्ति स्म। अधुना अस्य मार्गस्य सञ्चालनेन स्थानीय-कृषकाणां कुल-कृषिलाभे षष्टि-प्रतिशतमितः अभूतपूर्वा वृद्धिः अभिलेखिता। शिक्षाक्षेत्रेऽपि महान् सुधारः जातः। पूर्वं वर्षाकाले पूरकारणात् मार्गेषु पङ्कपूर्णत्वेन छात्राः मासान् यावत् विद्यालय-महाविद्यालययोः गन्तुं न शक्नुवन्ति स्म। अधुना सुरक्षित-बारहमासी-मार्गस्य उपलब्धतया छात्राः नियमितरूपेण शिक्षणसंस्थासु गच्छन्ति, येन तेषां उपस्थितौ उच्चशिक्षायां रुचौ च चत्वारिंशत्-प्रतिशत-वृद्धिः दृष्टा। प्रतिदिनं प्रायः दशसहस्रजनाः अस्य मार्गस्य माध्यमेन सुकरतया गच्छन्ति आगच्छन्ति च।
व्यापारक्षेत्रेऽपि उल्लेखनीयः विकासः दृश्यते। सायं षड्वादनानन्तरमपि प्रतिदिनं द्विशताधिकानि गुरुयानानि चायपत्रं, अगरुकाष्ठं, वेणुं, रबरं च वहन्ति देशस्य विभिन्न-विपण्यः प्रति प्रयान्ति। पूर्वं दश-किलोमीटर-परिमितौ कश्चन पक्क-सेतुः नासीत्, केवलं जीर्णः वेणु-सेतुरेव उपलब्धः आसीत्। अधुना तस्य स्थाने द्व्यधिकशत-मीटर-दीर्घः आधुनिकः सेतुः निर्मितः अस्ति।
अन्यः स्थानीय-निवासी अभिजीत-धुले अवदत् यत्, अस्य नूतन-सेतोः निर्माणेन धनश्रीनद्याः उभयतीरवासिनः सर्वकालेषु स्थायि-सुरक्षित-सम्पर्कव्यवस्थया सम्बद्धाः अभवन्। अधुना बालकानां उच्चशिक्षार्थं बहिर्गमनं भयवर्जितम् अस्ति, यतः मार्गाः पूर्णतया सुरक्षिताः सन्ति।
तेन उक्तं यत्, स्थानीय-व्यापारः अत्यन्तं वर्धितः, अन्तर्जनपदगमनागमनं च पूर्वापेक्षया बहुधा प्रवृद्धम्। अत्यन्तं हर्षस्य विषयः अस्ति यत् अधुना ग्रामेषु आधारभूत-स्वास्थ्यसेवाः सहजतया उपलब्धाः सन्ति। आपत्कालीन-स्थितौ रुग्णवाहिका अन्यानि वाहनानि वा प्रत्यक्षं ग्रामद्वारम् आगच्छन्ति।
अस्मिन् विशेष-भौगोलिक-प्रदेशे कृषकाः मुख्यतया चायपत्रं, रबरं, वेणुं, अगरुकाष्ठं च उत्पादयन्ति। अधुना बारहमासी-पक्वमार्ग-सेतोः च कारणेन परिवहन-व्ययः न्यूनः जातः, उत्पन्नानां नाशोऽपि निरुद्धः। कार्बी, अहोम, नेपाली, बोरो, मिसिङ्ग, खामयाङ्ग तथा चायोद्यान-जनजातीय-समुदायानां लघु-सीमान्त-कृषकाः अधुना दिफू, गुवाहाटी, गोलाघाटं नागालैण्डस्य प्रमुख-वाणिज्यकेन्द्राणि च शीघ्रतया प्राप्नुवन्ति। तेषां कृष्युत्पादानां समुचित-मूल्यं समये एव प्राप्यते।
उत्तम-परिवहन-सम्पर्कव्यवस्थया अन्तर्जनपद-व्यापारः, लघु-उद्योगाः, व्यावसायिक-क्रियाकलापाश्च तीव्रगत्या वर्धन्ते। एतेन स्थानीय-यूनां तथा स्वयंसहायता-समूहानां कृते स्वरोजगारस्य आत्मनिर्भरत्वस्य च नूतनावसराः सृज्यन्ते। अस्य मार्गस्य विकासेन ग्राम्य-क्षेत्रस्य अन्तिम-सीमान्त-नागरिकाणामपि सर्वकारीय-कल्याण-योजनाः, विकास-कार्यक्रमाः, सार्वजनिक-वितरण-प्रणाली इत्यादयः सेवाः सुलभाः अभवन्।
सुरक्षा-विधि-व्यवस्था-पर्यटन-विकासयोः दृष्ट्यापि अयं प्रकल्पः अत्यन्तं महत्त्वपूर्णः अस्ति। पूर्वं उग्रवाद-प्रभाविते अस्मिन् सीमावर्तिक्षेत्रे सुरक्षाबलानां निरीक्षणकर्मणि भौगोलिक-कठिनताः आसन्। अधुना अस्य आधुनिक-सेतोः निर्माणेन असम-नागालैण्ड-सीमायां तस्करी, अवैध-क्रियाकलापाः, अनधिकृत-प्रवेशः च प्रभावीरूपेण नियन्त्रयितुं पुलिस-अर्धसैनिक-बलानां शीघ्र-गमनागमनं सुनिश्चितम् अभवत्।
एषः सुगमः मार्गः स्थानीय-ग्रामीण-पर्यटनं सांस्कृतिक-गौरवं च नूतनाम् उन्नतिं नयति। अस्य सेतोः उद्घाटनेन अत्रतः केवलं सप्त-किलोमीटर-दूरे स्थितस्य प्रसिद्धस्य नाम्बोर-वन्यजीव-अभयारण्यस्य उष्णजलस्रोतसः प्रति पर्यटकानां गमनं सुलभम् अभवत्। तथैव अत्रतः अष्ट-किलोमीटर-दूरे स्थितस्य देवपानी-प्रदेशस्य प्राचीन-दुर्गामन्दिरस्य दर्शनार्थिनां, तीर्थयात्रिणां, भक्तानां च संख्या अपि पर्याप्तरूपेण वर्धिता, येन स्थानीय-होटल-परिवहन-हस्तशिल्प-व्यवसायिनां आयः अपि वृद्धिं गतः।
प्रशासनिक-तकनीकी-विवरणानुसारं असम-सर्वकारस्य लोकनिर्माण-विभागेन बारपाथर-विभागेन ‘आरसीसी-सेतु-संख्या ३/१ तथा एप्रोच-मार्गः’ इति परियोजना राष्ट्रीय-राजमार्ग-३९ (सिलोनीजान-राजकीय-चिकित्सालयात्) पनियाका-बस्तीमार्गेण धनश्री-पार-घाटपर्यन्तं चत्वारि किलोमीटर-दीर्घायां निर्मिता। मुख्य-सेतोः दीर्घता १०२ मीटर अस्ति। अस्य परियोजनायै २० अप्रैल २०२२ दिनाङ्के २०.५९ कोटिरूप्यकाणां स्वीकृत-व्ययेन प्रशासनिक-वित्तीय-अनुमोदनं प्राप्तम्। निर्माणकार्यं १९ अक्टूबर २०२२ दिनाङ्के प्रारब्धम्। विभागेन अस्य सम्पन्नतायाः समयसीमा अक्टूबर २०२५ पर्यन्तं निर्धारितासीत्, किन्तु प्रशासनिक-तत्परतया जनवरी २०२५ मासे एव शतप्रतिशतरूपेण सम्पन्नं कृत्वा जनसामान्याय समर्पितम्।
Hindusthan Samachar / Divya Ranjan