Enter your Email Address to subscribe to our newsletters

सीवाननगरम्, २६ जूनमासः (हि.स.)। दयानन्द-आयुर्वेदिक-चिकित्सा-महाविद्यालये, सीवान-नगरे, चेतना (प्रज्ञा-प्रवाहः) इत्यस्य जनपद-शाखया भारतबोधः तथा सांस्कृतिक-अवधारणा इति विषयम् अधिकृत्य व्याख्यानमालायाः आयोजनम् अभवत्।
अस्मिन् कार्यक्रमे भारतीयसंस्कृतेः, सभ्यतायाः तथा तस्याः वैश्विकमहत्त्वस्य विषये विस्तरेण विचारविमर्शः कृतः। मुख्यवक्ता प्रज्ञा-प्रवाहस्य राष्ट्रिय-कार्यकारिणी-समितेः सदस्यः प्रचारकश्च रामाशीषसिंहः अवदत् यत् विश्वे वास्तविकार्थे धर्मस्य अवधारणा केवलं भारते एव विद्यते, अन्येषु देशेषु तु मजहबः अथवा रिलिजन इत्येव अवधारणा प्रचलिता अस्ति।
सः अवदत् यत् भारतीयसंस्कृतेः दृष्टिः मानवस्य, प्रकृतेः तथा समग्रसृष्टेः मध्ये समन्वयं स्थापयितुं सदा प्रयतते। विविधान् ऐतिहासिकसन्दर्भान् उल्लिख्य सः उक्तवान् यत् पृथिवीं माता इति सम्बोधयितुं परम्परा भारते सहस्रवर्षेभ्यः प्रवर्तमाना अस्ति।
विषयप्रस्तुतिं कुर्वन् डॉ.अशोकप्रियम्बदः अवदत् यत् भारतं विश्वस्य प्राचीनतमेषु जीवत्सु राष्ट्रेषु अन्यतमम् अस्ति। अस्य सभ्यता संस्कृतिश्च अद्यापि सम्पूर्णविश्वस्य मार्गदर्शनं कर्तुं समर्थे स्तः।
सः अपि अवदत् यत् अद्य विश्वं यैः पर्यावरणीय-सामाजिक-सङ्कटैः संघर्षं करोति, तेषां स्थायी समाधानं भारतीयसंस्कृतौ निहितम् अस्ति, यतः भारतीयजीवनदर्शनं प्रकृत्या सह समन्वयमूलकम् अस्ति, न तु संघर्षमूलकम्।
कार्यक्रमस्य अध्यक्षतां दयानन्द-आयुर्वेदिक-चिकित्सा-महाविद्यालयस्य संरक्षकः पूर्वप्राचार्यश्च डॉ.प्रजापतित्रिपाठी अकरोत्। स्वीयाध्यक्षीयसम्बोधने सः अवदत् यत् भारतीयसंस्कृतिः विश्वस्य श्रेष्ठतमा संस्कृतिः अस्ति, या मानवता, समरसता तथा विश्वबन्धुत्वस्य सन्देशं ददाति। अद्य सम्पूर्णं विश्वं भारतीयसंस्कृतेः, योगस्य, भारतीयजीवनशैल्याश्च प्रति आकृष्टं भवति। अतः प्रत्येकं भारतीयेन स्वीयसंस्कृतेः स्वीयपरम्परायाश्च विषये गर्वः करणीयः।
Hindusthan Samachar / Divya Ranjan