मुख्यमन्त्री बङ्किमचन्द्र चट्टोपाध्यायस्य जन्मवार्षिकदिने श्रद्धाञ्जलिम् अर्पितवान्
गुवाहाटी, 26जूनमासः (हि.स.)। अस्साम्-राज्यस्य मुख्यमन्त्रिणः डा. हिमान्त-विश्वशर्मा-वर्यः शुक्रवासरे महान् देशभक्तः दूरदर्शी साहित्यकारः च बङ्किमचन्द्रचटोपाध्यायस्य जन्मवार्षिकदिने भव्यां श्रद्धाञ्जलिम् अददात्। सः अवदत् यत् औपनिवेशिकशासनस्य अन्धका
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 26जूनमासः (हि.स.)। अस्साम्-राज्यस्य मुख्यमन्त्रिणः डा. हिमान्त-विश्वशर्मा-वर्यः शुक्रवासरे महान् देशभक्तः दूरदर्शी साहित्यकारः च बङ्किमचन्द्रचटोपाध्यायस्य जन्मवार्षिकदिने भव्यां श्रद्धाञ्जलिम् अददात्। सः अवदत् यत् औपनिवेशिकशासनस्य अन्धकारे काले बङ्किमचन्द्रचटोपाध्यायः स्वस्य लेखनद्वारा राष्ट्रबोधस्य दीपं प्रज्वालयत्, देशभक्तेः भावाय नूतनां दिशां च दत्तवान् इति।

सामाजिकमाध्यमेषु प्रदत्तेन सन्देशे मुख्यमन्त्री अवदत् यत् बङ्किमचन्द्रेन रचितं 'वंदे मातरम्' केवलं गीतं न, अपितु भारतीयस्वतन्त्रता-आन्दोलनस्य प्राणः अभवत् इति। इदं भाषायाः, क्षेत्रस्य, समुदायस्य च सीमाम् अतिक्रम्य कोटिशः देशवासिनां ऐक्यं कृत्वा देशभक्तिम्, आत्मसम्मानं, स्वातन्त्र्यं च सुदृढम् अकरोत्।

सः अवदत् यत् 'आनन्दमठ' इत्यस्य माध्यमेन बङ्किमचन्द्रचटोपाध्यायः भारतमातुः वैभवयुतं मुखं राष्ट्रस्य समक्षं प्रादर्शयत्, स्वातन्त्र्यं, राष्ट्रिय-आत्मसम्मानं, राष्ट्रिय-चेतनां च प्रेरयत् इति। भारतस्य पुनर्जागरणस्य राष्ट्रनिर्माणस्य च कृते तस्य अतुल्यं योगदानं सर्वदा श्रद्धया कृतज्ञतया च स्मर्यते इति मुख्यमंत्रीः अवदत्।

--------

Hindusthan Samachar / Dheeraj Maithani