Enter your Email Address to subscribe to our newsletters



गोरखपुरम्, २६ जूनमासः (हि.स.)। उत्तरप्रदेशस्य गोरखपुर-प्रवासकाले मुख्यमन्त्री योगी-आदित्यनाथः शुक्रवासरस्य प्रातःकाले गोरक्षनाथ-मन्दिरे आयोजिते जनतादर्शने जनैः सह मिलित्वा तेषां समस्याः अशृणोत्। मुख्यमन्त्री अधिकारिणः निर्देशितवान् यत् जनतायाः प्रत्येकं समस्यायाः शीघ्रं समाधानं क्रियताम्। जनानां सूचनानां संवेदनशीलतया ग्रहणं कृत्वा तासां सन्तोषजनकं निराकरणं सुनिश्चितं करणे कश्चन प्रमादः न भवेत्। जनतादर्शने उपस्थितान् जनान् आश्वासयन् सः अवदत्— “चिन्ता मा कुरुत। सर्वासां समस्यानां विषये सर्वकारः प्रभावी कार्यवाहीं सुनिश्चितं करिष्यति।”
शुक्रवासरस्य प्रातःकाले गोरक्षनाथ-मन्दिरे आयोजिते जनतादर्शने मुख्यमन्त्री योगी-आदित्यनाथः प्रायः द्विशतं जनान् अमिलत्। महन्त-दिग्विजयनाथ-स्मृति-भवनस्य बहिः स्थापितासु उपवेशन-पीठिकासु उपविष्टान् जनान् समीपं गत्वा सः सर्वेषां समस्याः अशृणोत् तथा तेषां प्रार्थनापत्राणि समीपे स्थितेभ्यः अधिकारिभ्यः समर्प्य समस्या-समाधानार्थम् आवश्यकान् निर्देशान् अददात्। अस्मिन् अवसरे सः जनान् उक्तवान् यत् चिन्तायाः आवश्यकता नास्ति, सर्वेषां समस्यानां समाधानं करिष्यते।
जनतादर्शने प्रतिवत् केचन जनाः चिकित्सार्थम् आर्थिकसाहाय्यस्य प्रार्थनां कर्तुम् आगताः आसन्। मुख्यमन्त्री तान् आश्वासितवान् यत् धनाभावात् कस्यापि चिकित्सायाः अवरोधः न भविष्यति। हृदयरोगेण पीडितां एकां महिलां प्रति सः अवदत् यत् चिकित्सार्थं तस्यै मुख्यमन्त्री-राहत-कोषतः पर्याप्तम् आर्थिकसाहाय्यं प्रदास्यते। भूम्यतिक्रमणसम्बद्धासु सूचनासु मुख्यमन्त्री अधिकारिणः निर्देशितवान् यत् तादृशेषु प्रकरणेषु शीघ्रं कठोराणि च पदानि स्वीक्रियन्ताम्। ये बलात् भूमिम् अधिकुर्वन्ति, तेषां विरुद्धं कठोरा कार्यवाही अवश्यं क्रियताम्।
Hindusthan Samachar / Divya Ranjan