Enter your Email Address to subscribe to our newsletters

सीवानम्, २६ जूनमासः (हि.स.)। विश्व-नशामुक्ति-दिवसस्य अवसरे शुक्रवासरे सदर-चिकित्सालय-परिसरे जनपदस्य असंसर्गजन्य-रोग-कोषाङ्गस्य पक्षतः विशेषः जनजागरण-कार्यक्रमः आयोजितः।
अस्मिन् कार्यक्रमे रोगिभ्यः, तेषां परिजनेभ्यः तथा चिकित्सालये उपस्थितेभ्यः जनेभ्यः मादकद्रव्य-सेवनस्य दुष्परिणामानां विषये विस्तरेण सूचना प्रदत्ता तथा नशामुक्त-जीवनं स्वीकर्तुं सङ्कल्पः कारितः।
अस्मिन् अवसरे जनपदस्य मुख्य-चिकित्साधिकारी डॉ.श्रीनिवास-प्रसादः अवदत् यत् नशा कस्यापि समस्यायाः समाधानं नास्ति, अपितु बहूनां नवीन-समस्यानाम् आरम्भः भवति। एषा व्यक्तेः शारीरिकं मानसिकं च स्वास्थ्यं, तस्य परिवारस्य सुख-समृद्धिं सामाजिक-जीवनं च प्रतिकूलतया प्रभावितवती भवति। विशेषतः युवभिः नशातः दूरं स्थित्वा स्वस्थ-जीवनशैलीः स्वीकर्तव्या। यदि कश्चित् जनः नशा-व्यसनस्य आसक्त्या पीडितः अस्ति, तर्हि तस्मै समये समुचितं परामर्शं चिकित्सां च प्रदातुं सर्वेषां उत्तरदायित्वम् अस्ति। विश्व-नशामुक्ति-दिवसस्य अस्मिन् अवसरे वयं सर्वे मिलित्वा नशामुक्त-समाज-निर्माणस्य सङ्कल्पं कुर्मः।
कार्यक्रमस्य अन्तर्गतं चिकित्सालय-परिसरे नशामुक्ति-सम्बद्धैः विज्ञापन-पट्टैः माध्यमेन जनाः मादकद्रव्य-दुरुपयोगस्य अवैध-व्यापारस्य च विरुद्धं जागरूकाः कृताः।
स्वास्थ्य-विभागस्य अधिकारिणः जनान् तम्बाकु-सेवनात्, मद्यपानात्, अन्येभ्यः मादकद्रव्येभ्यश्च दूरं स्थातुं तथा अन्यानपि अस्य विषये जागरूकान् कर्तुम् आह्वानम् अकुर्वन्।
अस्मिन् अवसरे जनपदस्य असंसर्गजन्य-रोग-पदाधिकारी डॉ.ओमप्रकाश-लालः, डॉ.अनूप-कुमार-दुबे, चिकित्सालयस्य प्रबन्धकः कमलजीत-कुमारः, अन्ये चिकित्सकाः स्वास्थ्यकर्मिणश्च उपस्थिताः आसन्।
/ अंशु गुप्ता