विदेशात् आयातितानां औषधानां नियमेषु परिवर्तनं केन्द्रस्य प्रस्तावः अस्ति
नवदेहली, 26जूनमासः ,(हि.स.) केन्द्रसर्वकारेण विदेशात् आयातितानां औषधानां नियमेषु परिवर्तनं प्रस्तावितम् अस्ति। स्वास्थ्य-परिवार-कल्याण-मन्त्रालयेन औषधि-नियम-1945 इत्यस्य संशोधनस्य प्रारूपं अधिसूचितं, येन सामान्यजनैः हितधारकैः च सुझावानि आक्षेपानि
स्वास्थ्य मंत्रालय का लोगो


नवदेहली, 26जूनमासः ,(हि.स.) केन्द्रसर्वकारेण विदेशात् आयातितानां औषधानां नियमेषु परिवर्तनं प्रस्तावितम् अस्ति। स्वास्थ्य-परिवार-कल्याण-मन्त्रालयेन औषधि-नियम-1945 इत्यस्य संशोधनस्य प्रारूपं अधिसूचितं, येन सामान्यजनैः हितधारकैः च सुझावानि आक्षेपानि च आमन्त्रिताः।

प्रस्तावितनियमानां अनुसारं, अधिकांशाः औषधानि अधुना देशे प्रवेष्टुं न्यूनातिन्यूनं 12 मासान् यावत् शेल्फ्-आयुः प्राप्नुयुः। अद्यावधि, औषधस्य सम्पूर्ण-संरक्षण-आयुः 60 प्रतिशतात् अधिका भवेत् इति अनिवार्यं भवति। परन्तु जैविक-औषधानां रेडियोफार्मास्यूटिकल्स्-औषधानां च कृते विद्यमानः 60 प्रतिशतं शेल्फ्-लैफ़्-नियमः पूर्ववत् एव प्रवर्तते, तस्मिन् किमपि परिवर्तनं न भविष्यति।

अद्य स्वास्थ्यमन्त्रालयेन प्रकाशितस्य प्रकाशनस्य अनुसारं, एतत् परिवर्तनं औषधानां आपूर्तिशृङ्खलां अधिकप्रभावकं करिष्यति। औषधानां अपव्ययः न्यूनीभवति तथा च संस्थाः स्वसञ्चयस्य उत्तमप्रबन्धनं कर्तुं शक्नुवन्ति। एतेन व्ययः न्यूनीभवति तथा च आवश्यक-औषधानां उपलब्धता वर्धते इति अपेक्ष्यते।

मन्त्रालयः स्पष्टीकृतवान् यत् एतत् संशोधनम् केवलं आयातसमये औषधानां अवशिष्ट-आयुः एव सम्बद्धम् अस्ति इति। औषधानां गुणवत्तायाः, सुरक्षायाः, प्रभावकारितायाः च विषये विद्यमानानि सर्वाणि मानकाः विनियमाः च पूर्ववत् एव प्रवर्तन्ते।

--------

Hindusthan Samachar / Dheeraj Maithani