Enter your Email Address to subscribe to our newsletters

मोरादाबादम्, 26जूनमासः मूलभूतशिक्षाविभागस्य परिषदीयविद्यालयेषु अधुना ऐ. सि. टि. प्रयोगशालायाः माध्यमेन छात्राणां कृते सङ्गणकशिक्षां दीयते। मण्डल-प्राथमिक-शिक्षाधिकारिणः अमितसिङ्घः शुक्रवासरे अवदत् यत् अस्य कृते संरचना कल्प्यते येन कक्षाः नियमितरूपेण सञ्चालयितुं शक्नुवन्ति।
अस्मिन् मण्डले मूलभूतशिक्षाविभागेन सञ्चालिताः 1408 विद्यालयाः सन्ति। एतेषु संस्थासु प्रायः एकलक्षः छात्राः पठन्ति। सर्वेषु खण्डेषु विभागेन ऐ. सी. टी. प्रयोगशालायाः स्थापना कृता अस्ति। गणकयन्त्रस्य माध्यमेन छात्राणां कृते प्रौद्योगिकी-आधारितशिक्षां प्रदातुं तयारीः कृताः सन्ति। मोरादाबाद्-मण्डलस्य मूलभूत-शिक्षाधिकारिणः अमित् सिङ्घ्-वर्यः अवदत् यत् जनपदस्य शिक्षकाः ऐ. ऐ. टि. कान्पुर्-द्वारा प्रशिक्षिताः सन्ति इति। छात्राणां कृते अधुना गणकयन्त्रस्य मूलभूतज्ञानं शिक्षितं भविष्यति। अस्मिन् विषये शिक्षकाणां कृते निर्देशाः शीघ्रमेव निर्गन्तव्याः।
--------
Hindusthan Samachar / Dheeraj Maithani