आवास-मेला–२०२५ इत्यस्य लक्की-ड्रॉ-विजेतृभ्यः अद्योपहाराणि वितरिष्यन्ते
रायपुरनगरम्, २६ जूनमासः (हि.स.)। छत्तीसगढ-गृह-निर्माण-अधोसंरचना-विकास-मण्डलेन आयोजितस्य राज्यस्तरीय-आवास-मेला–२०२५ अन्तर्गतं लक्की-ड्रॉ इत्यस्मिन् चयनितेभ्यः हितग्राहिभ्यः उपहार-वितरण-समारोहः अद्य शुक्रवासरे नवा-रायपुर-अटल-नगरस्थिते न्यू-सर्किट-हाउ
मुख्यमंत्री विष्णुदेव साय


रायपुरनगरम्, २६ जूनमासः (हि.स.)। छत्तीसगढ-गृह-निर्माण-अधोसंरचना-विकास-मण्डलेन आयोजितस्य राज्यस्तरीय-आवास-मेला–२०२५ अन्तर्गतं लक्की-ड्रॉ इत्यस्मिन् चयनितेभ्यः हितग्राहिभ्यः उपहार-वितरण-समारोहः अद्य शुक्रवासरे नवा-रायपुर-अटल-नगरस्थिते न्यू-सर्किट-हाउस-परिसरे आयोज्यते। अस्मिन्नेव अवसरे मण्डलस्य नवीन-चिह्नस्य अपि विमोचनं भविष्यति। समारोहे मुख्यमन्त्री विष्णुदेव-सायः मुख्यातिथिरूपेण उपस्थितः भविष्यति।

उल्लेखनीयम् अस्ति यत् मण्डलेन आयोजितस्य राज्यस्तरीय-आवास-मेला–२०२५ अन्तर्गतं तथा च गतवर्षस्य २३ नवम्बरतः ३१ दिसम्बरपर्यन्तं विभिन्नासु आवासीय-व्यावसायिक-योजनासु पञ्जीकरणं कृत्वा भवन-आबण्टनं प्राप्तवतां हितग्राहिणां कृते गत-२२ जून-दिने विशेष-लक्की-ड्रॉ आयोजितः आसीत्। अस्मिन् ड्रॉ-कार्यक्रमे विजेतारः मारुति-स्विफ्ट-कारयानम्, होण्डा-शाइन-मोटरसाइकिलयानम्, होण्डा-एक्टिवा-स्कूटीयानम्, वाशिङ्ग-यन्त्रम्, शीतपेटिका, दूरदर्शन-यन्त्रम् इत्यादीनां बहूनाम् आकर्षकोपहाराणां कृते चयनिताः।

उपहार-वितरण-समारोहे लक्की-ड्रॉ-चयनितेभ्यः विजेतृभ्यः ससम्मानं पुरस्काराः प्रदास्यन्ते। तदतिरिक्तं मण्डलेन आयोजितायाः नवीन-लोगो-रचना-प्रतियोगितायाः विजेत्रे रचनाकाराय द्विलक्ष-पञ्चाशत्सहस्र-रूप्यकाणां पुरस्कारराशिरपि प्रदास्यते।

समारोहे मुख्यमन्त्री विष्णुदेव-सायः मुख्यातिथिरूपेण उपस्थितः भविष्यति। कार्यक्रमस्य अध्यक्षतां आवास-पर्यावरणमन्त्री ओ.पी. चौधरी करिष्यति। अस्मिन्नवसरे छत्तीसगढ-गृह-निर्माण-अधोसंरचना-विकास-मण्डलस्य अध्यक्षः अनुराग-सिंह-देवः, अन्ये जनप्रतिनिधयः, अधिकारिणश्च उपस्थिताः भविष्यन्ति।

कार्यक्रमस्य आयोजनं अद्य मध्याह्ने १:३० वादनात् भविष्यति। कार्यक्रमानन्तरं आवास-पर्यावरणमन्त्री ओ.पी. चौधरी मध्याह्ने ३:०० वादने पत्रकार-सम्भाषणम् सम्बोधयिष्यति।

Hindusthan Samachar / Divya Ranjan