Enter your Email Address to subscribe to our newsletters

भुवनेश्वरनगरम्, २६ जूनमासः (हि.स.)। ओडिशा-राज्यस्य राज्यपालः हरि-बाबू-कम्भमपटिः केन्द्रीय-शिक्षामन्त्री धर्मेन्द्र-प्रधानाय तस्य जन्मदिवसावसरे हार्दिकाः शुभकामनाः प्रदत्तवान्।
सामाजिक-माध्यमे प्रकाशिते स्वसन्देशे राज्यपालः धर्मेन्द्र-प्रधानस्य उत्तम-स्वास्थ्यं, सुखं, समृद्धिं, दीर्घायुष्यं च प्रार्थितवान्। तेन उक्तं यत् धर्मेन्द्र-प्रधानः राष्ट्रसेवायाः स्वकर्तव्यस्य सफलतया निर्वहणं कुर्वन् देशस्य प्रगत्यै विकासाय च निरन्तरं कार्यं करोतु।
राज्यपालेन स्वसन्देशे उक्तम्— “केन्द्रीयमन्त्री धर्मेन्द्र-प्रधानाय जन्म-दिवसस्य हार्दिक्य: शुभकामनाः। ईश्वरः तस्मै उत्तमं स्वास्थ्यं, सुखं, समृद्धिं, दीर्घायुष्यं च प्रददातु। राष्ट्रसेवायाः स्वकर्तव्य-निर्वहणे तस्मै निरन्तरं शक्तिः सफलता च प्राप्नोतु तथा च देशस्य प्रगत्यै विकासाय च तस्य सर्वे प्रयासाः सफलाः भवन्तु।”
Hindusthan Samachar / Divya Ranjan