Enter your Email Address to subscribe to our newsletters

चण्डीगढनगरम्, जूनमासस्य २६ दिनाङ्कः (हि.स.)। हरियाणासर्वकारेण प्रदेशस्य क्रीडकानां महतीं न्यूनतां प्रदाय क्रीडाश्रेणीकरणनीत्यां संशोधनं कृत्वा हरियाणा-ओलम्पिक-क्रीडाः आधिकारिकरूपेण मान्याः कृताः। क्रीडा-युवकार्यविभागेन शुक्रवासरे एतत्सम्बद्धा अधिसूचना प्रकाशिता।
हरियाणा-ओलम्पिक-सङ्घस्य अध्यक्षः नायकः जसविन्द्रसिंहः ‘मीनू’ बेनीवालः सर्वकारस्य अस्य निर्णयस्य स्वागतं कृतवान्। सः अवदत् यत् चिरकालात् सङ्घस्य पक्षतः एषा याचना क्रियमाणा आसीत् यत् हरियाणा-ओलम्पिक-क्रीडाः अपि श्रेणीकरणनीत्यां समावेश्येरन्, येन राज्यस्तरीयासु बहुक्रीडाप्रतियोगितासु उत्कृष्टं प्रदर्शनं कृतवन्तः क्रीडकाः अपि तादृशान् अवसरान् प्राप्नुयुः, ये अन्यासु मान्यप्रतियोगितासु भागं गृहीतवतां क्रीडकानां कृते उपलब्धाः सन्ति। अधिसूचनाप्रकाशनेन एषा दीर्घकाल-प्रतीक्षिता याचना सम्पूरिता अभवत्।
अधिसूचनानुसारम् अधुना हरियाणा-ओलम्पिक-क्रीडासु कृतं प्रदर्शनम् अपि क्रीडाश्रेणीकरण-प्रमाणपत्रस्य कृते मान्यप्रतियोगितासु गणयिष्यते। अयं संशोधनः २०२५ तमवर्षस्य नवम्बरमासस्य प्रथमदिनाङ्कात् प्रभावी मन्यते। सर्वकारेण २०१८ तमवर्षस्य क्रीडाश्रेणीकरणमार्गदर्शिकायां संशोधनं कृत्वा प्रतियोगितानां सूच्यां त्रयोदश-श्रेण्याम् हरियाणा-ओलम्पिक-क्रीडाः समावेशिताः। अधिसूचनानुसारम् अधुना हरियाणा-स्टेट्-क्रीडा, हरियाणा-स्टेट-चैम्पियनशिप-स्पर्धा, हरियाणा-स्टेट-महिला-क्रीडा, हरियाणा-स्टेट-खेल-महाकुम्भः तथा हरियाणा-स्टेट-ग्रामीण-पञ्चायत-क्रीडाः इत्यासां प्रतियोगितानां प्रदर्शनमपि श्रेणीकरणार्थं मान्यं भविष्यति। एतदपि स्पष्टीकृतं यत् केवलं तेषां क्रीडानां मान्यता भविष्यति, याः अन्ताराष्ट्रिय-ओलम्पिक-चार्टर, भारतीय-ओलम्पिक-सङ्घः, अथवा सम्बन्धितैः वैश्विक-क्रीडानिकायैः मान्याः सन्ति।
क्रीडाश्रेणीकरणप्रमाणपत्रम् क्रीडकाणां कृते महत्त्वपूर्णेषु तथ्येषु अन्यतमं मन्यते। अस्य आधारेण एव क्रीडकाः सर्वकारीयनियुक्तिषु क्रीडाकोटायाः लाभं, नियुक्तिप्रक्रियासु अवसरान्, विविधासु सर्वकारीययोजनासु पात्रतां, अन्यान् संस्थागतलाभांश्च प्राप्नुवन्ति। अधुना हरियाणा-ओलम्पिक-क्रीडासु उत्कृष्ट-प्रदर्शनं कृतवन्तः क्रीडकाः अपि एतेषां लाभानां कृते श्रेणीकरणस्य अधिकारं प्राप्स्यन्ति, येन सहस्रशः क्रीडकाणां कृते नूतनाः अवसराः उद्घाटिताः भविष्यन्ति।
हरियाणा-ओलम्पिक-एसोसिएशन-इत्यस्य अध्यक्षः नायकः जसविन्द्रसिंहः ‘मीनू’ बेनीवालः अस्य परिवर्तनस्य कृते मुख्यमन्त्रिणं नायबसिंह-सैनी तथा क्रीडामन्त्रिणं गौरवगौतमम् प्रति कृतज्ञतां प्रकटितवान्। सः अवदत् यत् अनेन निर्णयेन हरियाणा-ओलम्पिक-क्रीडानां प्रतिष्ठा वर्धिष्यते, अधिकाः क्रीडकाः च तासु सहभागाय प्रेरिताः भविष्यन्ति। अनेन जनपद-राज्यस्तरयोः स्पर्धा सुदृढा भविष्यति तथा प्रतिभासम्पन्नाः क्रीडकाः प्रारम्भिकस्तरे एव परिचयं प्रोत्साहनं च प्राप्स्यन्ति।
Hindusthan Samachar / Divya Ranjan