Enter your Email Address to subscribe to our newsletters

राँचीनगरम्, २६ जूनमासः (हि.स.)। रामगढ-बोकारो-मार्गे लारी-बरलौङ्ग-समीपे रात्रौ अभवत् भीषण-मार्ग-दुर्घटनायां सप्त जनाः मृताः। अस्मिन् दुःखद-प्रसङ्गे झारखण्डस्य मुख्यमन्त्री हेमन्त-सोरेणः प्रगाढं शोकं व्यक्तवान्। सः दिवङ्गतानां परिजनान् प्रति स्वसंवेदनाः अपि प्रकटितवान्।
मुख्यमन्त्री शुक्रवासरे सामाजिक-माध्यमे ‘एक्स’ इत्यत्र प्रकाशिते स्वसन्देशे उक्तवान् यत् लारी-बरलौङ्ग-समीपे जातायां दुर्घटनायां सप्तजनानां मृत्योः सूचना अत्यन्तं पीडादायिनी अस्ति। तेन मराङ्ग-बुरोः प्रार्थना कृता यत् सः दिवङ्गतात्मभ्यः शान्तिं प्रददातु तथा शोकसन्तप्त-परिवारेभ्यः एतत् असह्यदुःखं सोढुं शक्तिं ददातु।
हेमन्त-सोरेणः उक्तवान् यत् राज्यसर्वकारः दुर्घटनया प्रभावित-परिवाराणां सह स्थितः अस्ति। तेन जनपदप्रशासनाय उद्धार-कार्ययोः शीघ्रतया सञ्चालनस्य तथा घातितानां समुचित-चिकित्सायाः व्यवस्थां सुनिश्चितुं निर्देशः प्रदत्तः। सहैव मृतकानां परिजनानां सर्वप्रकारस्य शासकीय-साहाय्यस्य उपलब्धतायाः आश्वासनमपि दत्तम्।
उल्लेखनीयम् अस्ति यत् रामगढ-बोकारो-मार्गे लारी-बरलौङ्ग-समीपे रात्रौ अभवत् अस्यां भीषण-मार्ग-दुर्घटनायां सप्त जनाः घटनास्थले एव मृताः, अपरः एकः जनः तु आहतः अभवत्। तस्य उपचारः राँची-स्थिते रिम्स-चिकित्सालये प्रचलति। दुर्घटनायाः कारणानां अन्वेषणं प्रवर्तते।
Hindusthan Samachar / Divya Ranjan