Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २६ जूनमासः (हि.स.)। संसदीय-अल्पसंख्यक-कार्य-मन्त्री किरेण-रिजिजू अद्य नवदेहल्यां तिब्बतस्य आध्यात्मिक-गुरुणा परमपूज्येन दलाई-लाम-महाभागेन सह सौजन्य-साक्षात्कारं कृतवान्।
किरेण-रिजिजू सामाजिक-माध्यमे ‘एक्स’ इति सञ्चारमाध्यमे लिखितवान्—“अहं नवदेहल्यां परमपूज्यस्य दलाई-लाम-महाभागस्य कुशलक्षेमं ज्ञातुं गतवान्। तान् प्रसन्नचित्तान् तथा च अर्वाचीनायाः जानु-शल्यचिकित्सायाः अनन्तरं शीघ्रं स्वास्थ्य-लाभं कुर्वन्तं दृष्ट्वा महती प्रसन्नता अभवत्। मया तेषाम् आशीर्वादः प्राप्तः। यथापूर्वं तेषां करुणा, प्रज्ञा, विनयशीलता च मां प्रेरितवन्ति।”
उल्लेखनीयम् अस्ति यत् गत-८ जूनमासे नवदिल्लीस्थिते अपोलो-चिकित्सालये दलाई-लाम-महाभागस्य वाम-जानुनः शल्यचिकित्सा सम्पन्ना आसीत्, सा च सफलतया सम्पन्ना अभवत्।
हिन्दुस्थान समाचार / Divya Ranjan