Enter your Email Address to subscribe to our newsletters

झुंझुनूंजनपदः, जूनमासस्य २६ दिनाङ्कः (हि.स.)। राजस्थानस्य झुंझुनूं-जनपदस्य मेहरादासीग्रामस्य वीरः सपूतः भारतीयवायुसेनायाः सार्जेण्ट् सुरेन्द्रमोगा ‘ऑपरेशन सिन्दूर’ इत्यस्मिन् कृतस्य सर्वोच्चबलिदानस्य कृते आधिकारिकं राष्ट्रीयसम्मानं प्राप्तवान्। ‘ऑपरेशन सिन्दूर’ इत्यस्य अभियाने वीरगतिं प्राप्तानां षण्णां सैनिकानां नामानि प्रथमवारम् आधिकारिकरूपेण प्रकाशितानि, तेषु सार्जेण्ट् सुरेन्द्रमोगा-महोदयस्य नामापि समाविष्टम्।
नवदेहल्यां स्थितस्य राष्ट्रीययुद्ध-स्मारकस्य जालपुटे प्रकाशिते ‘रोल-ऑफ-ऑनर’ इति अभिलेखे सार्जेण्ट् सुरेन्द्रमोगा-महोदयस्य नाम अभिलिखितम्। तेन सह राष्ट्रीययुद्ध-स्मारकस्य त्रि-आयामी-प्राचीरे वर्षस्य २०२५ इत्यस्य विभागेऽपि तस्य नाम उत्कीर्णं कृतम्।
राष्ट्रीययुद्धस्मारकस्य ‘त्यागचक्रे’ संस्थापितासु षोडशसु वृत्ताकार-ग्रेनाइट-प्राचीरासु स्वातन्त्र्यप्राप्तेः अनन्तरं देशस्य कृते सर्वोच्चबलिदानं दत्तवतां सैनिकानां नामानि, पदानि, सैन्यदलानि च उत्कीर्णानि सन्ति। इदानीं तासां गौरवशालिनीनां नामावलिनां मध्ये सार्जेण्ट् सुरेन्द्रमोगा-महोदयस्य नामापि स्थायिरूपेण समाविष्टम्।
भारतीयवायुसेनायाः प्रमुखः एयरचीफमार्शल-अमरप्रीतसिंहः स्वयं मेहरादासीग्रामम् आगत्य बलिदानिनः पत्नीं सीमादेवीं, मातरं नानूदेवीं, अन्यान् परिवारजनांश्च समागत्य तेभ्यः सान्त्वनां दत्तवान्। सः आश्वासनमपि दत्तवान् यत् भारतीयवायुसेना स्वस्य एतादृशं वीरं कदापि न विस्मरिष्यति। अनन्तरं राष्ट्रपतिः द्रौपदीमुर्मू सार्जेण्ट् सुरेन्द्रमोगा-महोदयाय मरणोपरान्तं वायुसेनामेडल (शौर्यसम्मानम्) प्रदत्तवती। भारतीयवायु-सेनया नवदेहल्यां स्थितायाः स्वकीयायाः आधिकारिकायाः एकस्याः शाखायाः नाम ‘सुरेन्द्र-हॉल’ इति कृत्वा तस्मै श्रद्धाञ्जलिरपि समर्पिता।
राष्ट्रीययुद्धस्मारकस्य ‘रोल-ऑफ-ऑनर’ इत्यत्र नाम समाविष्टे सति बलिदानिनः परिवारेण सन्तोषः गौरवं च व्यक्तीकृतम्। उल्लेखनीयं यत् ‘ऑपरेशन सिन्दूर’ इत्यस्मिन् वीरगतिं प्राप्तेषु षट्सु सैनिकेषु सार्जेण्ट-सुरेन्द्रमोगा भारतीयवायुसेनायाः एकः एव बलिदानी आसीत्, अन्ये पञ्च सैनिकाः भारतीयस्थलसेनायाः आसन्। सम्पूर्णेऽस्मिन् अभियाने राजस्थानतः वीरगतिं प्राप्तानामपि सः एव एकः एव सैनिकः आसीत्।
झुंझुनूं-जनपदस्य मेहरादासीग्रामात् निर्गत्य राष्ट्ररक्षणार्थं सर्वोच्चबलिदानं दत्तवतः सार्जेण्टसुरेन्द्रमोगा-महोदयस्य नाम इदानीं राष्ट्रस्य अमरवीराणां नामावलौ स्वर्णाक्षरैः लिखितमिव चिरस्थायिरूपेण प्रतिष्ठितम्। दीर्घकालीन-प्रतीक्षायाः अनन्तरं प्राप्तेन अनेन आधिकारिकसम्मानेन न केवलं तस्य परिवारः, अपितु समग्रः झुंझुनूं-जनपदः राजस्थानराज्यं च गौरवान्वितम् अभवत्।
Hindusthan Samachar / Divya Ranjan