Enter your Email Address to subscribe to our newsletters



रायपुरनगरम्, २६ जूनमासः (हि.स.)। छत्तीसगढ-राज्यस्य वित्तमन्त्री ओ.पी.चौधरी शुक्रवासरे महाराजा-अग्रसेन-इण्टरनेशनल-महाविद्यालयेन आयोजिते द्विदिवसीये राष्ट्रिय-सम्मेलने “कृत्रिमबुद्धिः तथा डिजिटल-रूपान्तरणम् : अवसराः, आव्हानानि, भविष्यप्रभावाश्च” इति विषयके मुख्यातिथिरूपेण सहभागित्वा यूनः आहूतवान् यत् ते कृत्रिमबुद्धेः तथा नवीन-प्रौद्योगिकीनां विषये भयभीताः न भवेयुः, अपितु ताः स्वभविष्य-निर्माणस्य महत्तमम् अवसरं मन्येरन्।
स्वीयसम्बोधने मन्त्री चौधरी अवदत् यत् अद्य समग्रं विश्वं ज्ञान-प्रौद्योगिकी-नवाचार-आधारिताम् अर्थव्यवस्थां प्रति द्रुतगत्या अग्रे सरति। भारतस्य सुवर्णिमः इतिहासः अपि ज्ञानस्य, शिक्षायाः, नवाचारस्य च दृढाधारे प्रतिष्ठितः आसीत्। सः अवदत् यत् भारतं प्रायः षोडश-शतवर्षपर्यन्तं विश्वस्य बृहत्तमा अर्थव्यवस्था आसीत्, यतः अत्र शिक्षा, अनुसन्धानम्, नवाचारश्च सर्वोच्चस्थानं प्राप्तवन्तः।
मन्त्री चौधरी यूनः प्रति अवदत् यत् अद्य विश्वस्य सफलतमाः उद्योगपतयः उद्यमिनश्च ते एव सन्ति, ये नवीन-विचारैः नवाचारैश्च स्वीयां विशिष्टं परिचयं निर्मितवन्तः। एलन मस्क, एनवीडिया तथा एप्पल इत्यादीनां उदाहरणं दत्त्वा सः अवदत् यत् अद्य प्रौद्योगिक्याः सामर्थ्यम् एतावत् वर्धितम् अस्ति यत् अनेकासां प्रौद्योगिकी-निर्माणीनां मूल्यं बहूनां राष्ट्राणाम् अर्थव्यवस्थातः अपि अधिकम् अस्ति। अतः यूनः समये एव प्रौद्योगिकी-परिवर्तनं सम्यक् अवगत्य तदनुकूलं स्वान् सिद्धान् कुर्वन्तु।
वित्तमन्त्री अवदत्— “यः कृत्रिमबुद्धिम् अङ्गीकरिष्यति, स एव भविष्यस्य नेतृत्वं करिष्यति। यः तस्मात् दूरं पलायिष्यति, स स्पर्धायां पृष्ठतः पतिष्यति।” सः अवदत् यत् प्रत्येकं प्रौद्योगिकी-परिवर्तनम् आव्हानानि आनयति, किन्तु तदेव नूतनान् अवसरानपि जनयति। आवश्यकता अस्ति यत् यूनः एतेषाम् अवसराणां सम्यक् लाभम् उपयुञ्जीरन्।
सः अवदत् यत् कृत्रिमबुद्धिः बहूनि कार्याणि सरलानि कर्तुं शक्नोति, किन्तु मानवीया संवेदनशीलता, करुणा, मानवीय-स्पर्शश्च तस्याः विकल्पः कदापि न भविष्यति। अतः यूनः स्वास्थ्यसेवा, परिचर्या तथा अन्येषु सेवाक्षेत्रेषु अपि प्रवर्तेरन्, यत्र मानवीयमूल्यानां महत्त्वपूर्णा भूमिका वर्तते।
मन्त्री चौधरी यूनः प्रार्थितवान् यत् ते केवलं सेवायाः अन्वेषणेन न सीमिताः भवेयुः, अपितु नवाचारस्य उद्यमितायाश्च दिशि अग्रे गच्छेयुः तथा च विश्वस्तरीयानां नवप्रवर्तन-उद्यमानां प्रौद्योगिकी-निर्माणीनाञ्च स्थापनाय लक्ष्यं निधध्युः। सः अवदत् यत् भारतीय-यूनां प्रतिभायाः काचिदपि न्यूनता नास्ति तथा च समग्रे विश्वे भारतीयानां प्रौद्योगिकी-नेतृत्वं समादृतम् अस्ति।
सः अवदत् यत् प्रधानमन्त्री-नरेन्द्रमोदिनः ‘विकसित-भारतम् @२०४७’ इति दृष्ट्या प्रेरितं छत्तीसगढ-सर्वकारः अपि मुख्यमन्त्रिणः विष्णुदेवसायस्य नेतृत्वे ‘छत्तीसगढ-अञ्जोर-दृष्टिः @२०४७’ इति योजनायाः कार्यं करोति। अस्याः दिशायां नवा-रायपुरं उदयोन्मुख-प्रौद्योगिकी-नवाचार-केन्द्ररूपेण विकसितं क्रियते। अत्र सेमिकण्डक्टर-एककस्य, कृत्रिमबुद्धि-दत्तांश-केन्द्रस्य तथा ट्रिपल-आईटी-संस्थायां अत्याधुनिक-अनुसन्धान-सुविधाभि: सह अनेकाः महत्त्वपूर्णाः परियोजनाः द्रुतगत्या प्रचलन्ति।
कार्यक्रमस्य अन्ते वित्तमन्त्री ओ.पी.चौधरी महाराजा-अग्रसेन-इण्टरनेशनल-महाविद्यालयस्य प्रबन्धनं, आयोजकान् तथा सर्वान् सहभागिनः सम्मेलनस्य सफलाय आयोजनाय अभिनन्दितवान्। सः अवदत् यत् एतादृशाः आयोजनाः यूनः भविष्यस्य आव्हानानां अवसराणां च कृते सज्जीकर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। सः विश्वासं व्यक्तीकृतवान् यत् छत्तीसगढस्य यूनः नवाचार-प्रौद्योगिकी-क्षेत्रयोः नूतनाः उच्चताः प्राप्स्यन्ति।
Hindusthan Samachar / Divya Ranjan