वेनेजुएला भूकम्पः भारतम् साहाय्यम् विस्तारयति, 'आपरेशन् अमिस्ताद्' इत्यस्य भागरूपेण द्वौ ऐ. ए. एफ्. विमानौ रक्षणसामग्रीः वहन्ति
नवदेहली, 26जूनमासः वेनेजुएला-देशस्य राजधान्यां काराकस्-नगरे सद्यः एव कृतस्य विनाशकारीभूकम्पस्य अनन्तरं, भारतं अस्मिन् सङ्कटकाले मानवीयसहायतायै साहाय्यं प्रादात्। भारतीय-वायुसेनायाः द्वौ विमानौ शुक्रवासरे ''आपरेशन् अमिस्ताद्'' इत्यस्य भागरूपेण आ
भारतीय विमान राहत सामग्री लेकर रवाना हुआ


नवदेहली, 26जूनमासः वेनेजुएला-देशस्य राजधान्यां काराकस्-नगरे सद्यः एव कृतस्य विनाशकारीभूकम्पस्य अनन्तरं, भारतं अस्मिन् सङ्कटकाले मानवीयसहायतायै साहाय्यं प्रादात्। भारतीय-वायुसेनायाः द्वौ विमानौ शुक्रवासरे 'आपरेशन् अमिस्ताद्' इत्यस्य भागरूपेण आवश्यकानि उपशमनसामग्रीनि चिकित्सा-उपकरणानि च वहन् वेनेज़ुएला-देशं प्रति प्रस्थितौ।

सामाजिक-माध्यम-मञ्चे 'एक्स' इत्यत्र एतत् सूचयन् विदेश-कार्यमन्त्री डा. एस्. जयशङ्करः अवदत् यत् अस्मिन् मानवीय-सहायता-अभियानस्य अन्तर्गतं भारतात् चिकित्सा-विपद्-व्यवस्थापनसम्बद्ध-उपकरणानि बृहदाकाररूपेण प्रेष्यन्ते। उपशमनसामग्रीषु क्षेत्र-चिकित्सालय-विभागः, 35 टन्-तः अधिकाः उपशमनसामग्रीः, द्वौ 'भीष्म-क्यूब्स्' च सन्ति, ये विपद्-पीडित-क्षेत्रेषु तत्क्षण-चिकित्सासहायां, उपशमनकार्येषु च उपयुज्यन्ते इति सः अवदत्।

डा. जयशङ्करः अवदत् यत् अस्मिन् दुष्करसमये भारतः वेनेजुएला-देशस्य सर्वकारस्य जनानां च पक्षे दृढतया स्थितः अस्ति इति। सः अवदत् यत् भारतं सर्वान् सम्भवान् साहाय्यान् प्रदातुं प्रतिबद्धः अस्ति, यदि आवश्यकं भवति तर्हि तत् अनुवर्तयिष्यति इति।

काराकस्-नगरे तथा तस्य परितः क्षेत्रेषु सद्यः एव 7.5 तथा 7.2 इति तीव्रतांकयुक्तौ द्वौ शक्तिशालीभूकम्पौ अनुभूतौ, येन व्यापकः विनाशः अभवत् इति लक्षणीयम् अस्ति। प्रारम्भिकवृत्तान्तानुगुणं भूकम्पेन महती जनहानिः अभवत्, अद्यावधि 200 तः अधिकाः जनाः मृताः इति सूचितम् अस्ति। अनेकानि भवनानि अपि क्षतिग्रस्ताः सन्ति, तथा च युद्धपात्येन साहाय्य-उद्धार-कार्याणि प्रचलन्ति।

--------

Hindusthan Samachar / Dheeraj Maithani