राजस्थानीलेखिकासंस्थानस्य वार्षिकः साहित्यिकोत्सवः ‘साळीणो–उछब’ जूनमासस्य २८ दिनाङ्के आयोजयिष्यते
जयपुरनगरम्, जूनमासस्य २६ दिनाङ्कः (हि.स.)। राजस्थानीलेखिकासंस्थानेन वार्षिकः साहित्यिकोत्सवः ‘साळीणो–उछब’ जूनमासस्य २८ दिनाङ्के प्रौढशिक्षणसमितेः झालाना-परिसरे आयोजयिष्यते। अस्य आयोजनस्य उद्देश्यं राजस्थानीभाषां साहित्यं च नववंशेन सह सम्बद्धं कर्तु
राजस्थानी भाषा एवं साहित्य को नई पीढ़ी से जोड़ना, महिला रचनाकारों को सशक्त मंच प्रदान करना ही उद्देश्य


जयपुरनगरम्, जूनमासस्य २६ दिनाङ्कः (हि.स.)। राजस्थानीलेखिकासंस्थानेन वार्षिकः साहित्यिकोत्सवः ‘साळीणो–उछब’ जूनमासस्य २८ दिनाङ्के प्रौढशिक्षणसमितेः झालाना-परिसरे आयोजयिष्यते। अस्य आयोजनस्य उद्देश्यं राजस्थानीभाषां साहित्यं च नववंशेन सह सम्बद्धं कर्तुम्, महिला-साहित्यकाराभ्यः सशक्तं मञ्चं प्रदातुम्, साहित्यिकसंवादाय च नूतनाम् ऊर्जां दातुमस्ति।

कार्यक्रमसंयोजिका मोनिकागौडः अवदत् यत् अस्मिन् आयोजने प्रदेशस्य विभिन्नभागेभ्यः वरिष्ठाः युवा-साहित्यकाराश्च सहभागं करिष्यन्ति। कार्यक्रमस्य उद्घाटनं सम्मानसमारोहश्च प्रातः १०:१५ वादने भविष्यतः। अस्य अध्यक्षतां वरिष्ठसाहित्यकारा दमयन्ती-कछवाहा करिष्यति। मुख्यातिथिरूपेण वरिष्ठसाहित्यकारः गीतकारश्च सत्यदेवसंवितेन्द्रः, विशिष्टातिथिरूपेण च दिनेशकुमारजाङ्गिडः ‘सारङ्ग’ उपस्थितः भविष्यति। चळकोई-फाउण्डेशन-इत्यस्य अध्यक्षः राजवीरसिंहः चळकोई बीजभाषणं दास्यति, संस्थाध्यक्षा वरिष्ठसाहित्यकारा डा.शारदाकृष्णा च स्वागतभाषणं करिष्यति।

आयोजनस्य अन्तर्गतं लोकार्पणं पुस्तकचर्चासत्रं च भविष्यति। अस्मिन् अवसरे डा.शारदाकृष्णायाः ‘घर कीं कैवणो चावै’ इति कृतिः लोकार्पिता भविष्यति। तथा जीनसकंवर-महोदयायाः ‘रेत नै बणा आरसी’ इति पुस्तके युवा-साहित्यकारा सुनीताबिश्नोलिया वरिष्ठसाहित्यकारा डा.दर्शनाकंवरः ‘उत्सुक’ च चर्चा प्रस्तोष्यतः। अस्य सत्रस्य सञ्चालनं सन्तोषचौधरी करिष्यति, अध्यक्षतां च डा.घनश्याम-नाथकच्छावा वहिष्यति।

संस्थानस्य अभिलाषापारीकः अवदत् यत् ‘राजस्थानी युवा कविताई रा सुर’ इति सत्रे प्रदेशस्य विभिन्नजनपदेभ्यः आगताः युवा-रचनाकाराः स्वस्वरचनानां वाचनं करिष्यन्ति। तेषु अक्षिता (बीकानेरनगरम्), अनिता सैनी (सीकरनगरम्), अवन्तिका (ब्यावरनगरम्), जेठानन्दपंवारः (बाड़मेर-नगरम्), कपिलापालीवालः (जयपुर-नगरम्), गजराजकंवरः (नागौरनगरम्), मीनाक्षीपारीकः (रीङ्गसनगरम्) तथा कृषगौडः (जयपुरनगरम्) समाविष्टाः सन्ति। अस्य सत्रस्य सञ्चालनं कामनाराजावतः करिष्यति।

संस्थानस्य बिमलानागला इत्यनया सूचितं यत् समापनसत्रस्य अध्यक्षतां वरिष्ठ-साहित्यकारः राजेन्द्रमोहनशर्मा करिष्यति। मुख्यातिथिरूपेण डा.आशापाण्डे-ओझा, विशिष्टातिथिरूपेण च डा.सुशीला शीलः उपस्थिते भविष्यतः। समापनसत्रस्य सञ्चालनं मधुरपरिहारः करिष्यति।

Hindusthan Samachar / Divya Ranjan