संविधान-हत्या-दिवसः — उत्तराखण्डस्य पूर्वमुख्यमन्त्रिणा कोश्यारिणा डीयू-प्राध्यापकस्य डॉ.सुधीरसिंहस्य पुस्तकस्य लोकार्पणम्
नवदिल्ली, २६ जूनमासः (हि.स.)। भारते १९७५ तमे वर्षे घोषितस्य आपत्कालस्य एकपञ्चाशत्तम्याः वर्षग्रन्थे: अवसरे महाराष्ट्र-गोवा-राज्ययोः पूर्वराज्यपालः तथा उत्तराखण्डस्य पूर्वमुख्यमन्त्री भगतसिंह-कोश्यारी दिल्ली-विश्वविद्यालयस्य कलासंकायस्थिते टैगोर-सभा
दिल्ली विश्वविद्यालय के कुलपति प्रो. योगेश सिंह पुस्तक लोकार्पण में सभा को संबोधित करते हुए।


नवदिल्ली, २६ जूनमासः (हि.स.)। भारते १९७५ तमे वर्षे घोषितस्य आपत्कालस्य एकपञ्चाशत्तम्याः वर्षग्रन्थे: अवसरे महाराष्ट्र-गोवा-राज्ययोः पूर्वराज्यपालः तथा उत्तराखण्डस्य पूर्वमुख्यमन्त्री भगतसिंह-कोश्यारी दिल्ली-विश्वविद्यालयस्य कलासंकायस्थिते टैगोर-सभागारे डीयू-प्राध्यापकस्य डॉ.सुधीर-सिंहस्य ‘डेमोक्रेसी एण्ड ह्यूमन राइट्स इन इण्डिया : रिफ्लेक्शन फॉर इमर्जेन्सी (१९७५–१९७७)’ इति पुस्तकस्य लोकार्पणम् अकरोत्।

अस्मिन् अवसरे दिल्ली-विश्वविद्यालयस्य कुलपतिः प्रो. योगेशसिंहः विशिष्टातिथि-रूपेण उपस्थितः आसीत्।

एषा पुस्तिका आपत्कालस्य (१९७५–१९७७) गम्भीरं विश्लेषणं प्रस्तौति। अस्याम् संवैधानिक-संस्थानां, नागरिक-स्वातन्त्र्याणां, लोकतान्त्रिक-शासन-व्यवस्थायाः तथा मानवाधिकाराणां प्रति आपत्कालस्य प्रभावः ऐतिहासिक-विचारात्मक-दृष्ट्या सम्यक् विवेचितः अस्ति।

कुलपतिः प्रो.योगेशसिंहः लोकतान्त्रिक-मूल्यानां संरक्षणार्थम् ऐतिहासिक-स्मृतेः महत्त्वम् अवोचत्। तेन उक्तं यत् युवपीढ्यै भारतीय-लोकतन्त्रस्य अस्य अन्धकारमय-अध्यायस्य सम्यगवगमनम् अत्यन्तम् आवश्यकम्। अस्य पुस्तकस्य लोकार्पणं पुरातनव्रणस्य पुनरुद्घाटनमिव अस्ति, किन्तु यः राष्ट्रः स्वव्रणान् विस्मरति, स तेषां पुनरावृत्तेः समस्या वहति।

आपत्कालकाले स्वानुभवान् स्मारयन् भगतसिंह-कोश्यारी, यः तस्मिन् काले कतिपयान् मासान् कारागारे व्यतीतवान्, उक्तवान् यत् २५ जून दिवसः संविधान-हत्या-दिवसः इति स्मर्तव्यः। एषः भारतीय-लोकतन्त्रस्य इतिहासे कृष्णाध्यायः अस्ति तथा अग्रिमवंशा: अस्य पाठान् सर्वदा स्मरन्तु।

डॉ.सुधीरसिंहः उक्तवान् यत् एकोनविंशतिमासपर्यन्तम् भारतीय-लोकतन्त्रं घनान्धकारस्य छायायाम् आसीत्। राज्यशक्तेः प्रयोगः न्यायपालिकासहितानां लोकतान्त्रिक-संस्थानां विरुद्धं कृतः। कौटिल्यस्य मते न्यायपूर्णं शासनं कस्यापि राजनैतिक-व्यवस्थायाः आधारशिला भवति। आपत्कालस्य प्रवर्तनं लोकतान्त्रिक-मूल्येषु गम्भीरः प्रहारः आसीत्।

डॉ.सुधीरसिंहः अधुना दिल्ली-विश्वविद्यालयस्य राजनीतिशास्त्र-विभागे प्राध्यापकत्वेन नियुक्तः अस्ति। सः प्रतिष्ठितः विद्वान् अस्ति तथा अद्यावधि पञ्च पुस्तकानि लिखितवान्, त्रयोविंशतिः पुस्तकानि सम्पादितवान्, राष्ट्रीय-अन्ताराष्ट्रिय-शोधपत्रिकासु त्रिनवतिः शोधलेखान् प्रकाशितवान् च।

अस्मिन् कार्यक्रमे अनेके प्रतिष्ठिताः शिक्षाविदः बुद्धिजीविनश्च उपस्थिताः आसन्। तेषु प्रो.भारती-शर्मा, प्रो.बी.के.सिंहः, प्रो.एम.रहमतुल्लाहः, प्रो. कुमार-आशुतोषः, प्रो. रञ्जना-मुखोपाध्यायः, प्रो. प्रेरणा-मल्होत्रा, डॉ. कामाख्या-तिवारी, प्रो. ए.एस. यारुइंगम्, प्रो. रवि-प्रकाश-टेकचन्दानी, डूटा-अध्यक्षः प्रो. वी.एस. नेगी तथा डॉ. रूपेश-चौहानः प्रमुखतया समुपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan