Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, जूनमासस्य २६ दिनाङ्कः (हि.स.)। शिक्षाक्षेत्रे जनसहयोगस्य सामाजिकसहभागितायाश्च प्रोत्साहनार्थं त्रिंशत्तमः राज्यस्तरीयः भामाशाह-सम्मानसमारोहः–२०२६ जूनमासस्य २९ दिनाङ्के जयपुरस्थे बिड़ला-सभागारे आयोजयिष्यते। अस्मिन् समारोहे मुख्यमन्त्री भजनलालशर्मा मुख्यातिथि-रूपेण सहभागं करिष्यति।
कार्यक्रमस्य अध्यक्षतां शिक्षामन्त्री मदनदिलावरः करिष्यति, उपमुख्यमन्त्री प्रेमचन्दबैरवा च विशिष्टातिथिरूपेण उपस्थितो भविष्यति। अस्मिन् समारोहे शिक्षाक्षेत्रे उल्लेखनीयं योगदानं कृतवन्तः २७६ अधिकाः भामाशाहाः, प्रेरकाः, अनिवासीभारतीयदानदातारश्च सम्मानिताः भविष्यन्ति। सम्मानितेषु १५४ भामाशाहाः, ९९ प्रेरकाः तथा २३ अनिवासीभारतीय-दानदातारः समाविष्टाः सन्ति। एते दानदातारः राजकीयविद्यालयेषु भवन-निर्माणे, अतिरिक्तकक्षनिर्माणे, भूमेः उपलब्धीकरणे तथा अन्येषाम् आधारभूत-सौविध्यानां विकासे महत्त्वपूर्णं योगदानं दत्तवन्तः।
शिक्षाविभागस्य अनुसारं वित्तीयवर्षे २०२५–२६ भामाशाहानां दानदातॄणां च सहयोगेन विभागाय ३१८ कोटिरूप्यकाणां योगदानं प्राप्तम्। अनेन सहयोगेन प्रदेशस्य अनेकेषु राजकीयविद्यालयेषु आधारभूत-सौविध्यानां विस्तारः अभवत् तथा विद्यार्थिनां कृते श्रेष्ठतरं शैक्षणिक-वातावरणं प्रदातुं महती सहायता जाता।
/ अंशु गुप्ता