Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, २६ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुर-जनपदे स्वदलस्य पक्षतः आरक्षणस्य जनकस्य, महत: समाजसुधारकस्य तथा वञ्चितजन-हितैषिणः राजर्षेः छत्रपति-शाहूजीमहाराजस्य द्विपञ्चाशदधिक-शततमां (१५२) जयन्तीं श्रद्धापूर्वकं समाचरितम्। भरुहना-स्थिते सांसद-जनसम्पर्क-कार्यालये आयोजिते कार्यक्रमे कार्यकर्तारः तस्य चित्रे माल्यार्पणं कृत्वा श्रद्धाञ्जलिम् अर्पितवन्तः तथा च तेन प्रदर्शिते मार्गे चलितुं संकल्पम् अगृह्णन्।
कार्यक्रमस्य अध्यक्षतां जनपदाध्यक्षः अभियन्ता रामलौटनबिन्दः अकरोत्। सः अवदत् यत् राजर्षिः शाहूजीमहाराजः सामाजिकसमता-शिक्षयोः क्षेत्रयोः ऐतिहासिकं योगदानम् अददात्। सः १९०२ तमे वर्षे कोल्हापुर-रियासते सामाजिक-दृष्ट्या पृष्ठवर्गाणां दुर्बलवर्गाणां च कृते पञ्चाशत्प्रतिशतम् आरक्षणं प्रवर्त्य सामाजिकन्यायस्य दृढां आधारशिलां न्यधात्। सः अपि अवदत् यत् शाहूजी-महाराजः समाजसुधारकस्य महात्मनः ज्योतिबाफुले-महोदयस्य विचारैः प्रेरितः सन् आजीवनं शोषितानां, वञ्चितानां, पृष्ठवर्गाणां च उत्थानाय कार्यम् अकरोत्।
जनपदाध्यक्षः अवदत् यत् दलस्य राष्ट्रियाध्यक्षा केन्द्रीयराज्यमन्त्री च अनुप्रियापटेल-महोदयायाः निर्देशानुसारं प्रदेशस्य सर्वेषु जनपदेषु शाहूजीमहाराज्ञ: जयन्ती समाचर्यते। सः कार्यकर्तॄन् आहूतवान् यत् अग्रिमे द्वितीय-जुलाई-दिने लखनऊ-नगरे आयोजिते दलस्य संस्थापकस्य डॉ.सोनेलालपटेल-महोदयस्य जयन्त्युत्सवे अधिकाधिक-सङ्ख्यया उपस्थित्वा कार्यक्रमं सफलं कुर्वन्तु।
अस्मिन् अवसरे प्रदेशसचिवः रामवृक्षबिन्दः, जनपद-माध्यम-प्रभारी शङ्कर-सिंहचौहानः, छात्रमञ्चस्य जनपदाध्यक्षः विकासमौर्यः, नमिता केसरवानी, मनीषासिंहः, उमाशङ्करसोनी, राजेशमौर्यः, अर्जुनसोनकरः, आरिफ-अलीमन्सूरी, राहुलओझा इत्यादयः बहवः पदाधिकारिण: कार्यकर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan