उपमुख्यमन्त्रिणा ब्रजेश-पाठकेन मातु: विंध्यवासिन्याः दर्शन-पूजनं कृतम्
मीरजापुरम्, २६ जूनमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश-पाठकः शुक्रवासरे विंध्याचलधामं प्राप्य माता विंध्यवासिन्याः मन्दिरे विधिविधानपूर्वकं दर्शन-पूजनं कृतवान् तथा प्रदेशस्य सुख-समृद्ध्यर्थं प्रार्थनाम् अकरोत्। निर्धारित-कार्यक्रमानु
मां विंध्यवासिनी का दर्शन-पूजन करते उपमुख्यमंत्री ब्रजेश पाठक।


मीरजापुरम्, २६ जूनमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश-पाठकः शुक्रवासरे विंध्याचलधामं प्राप्य माता विंध्यवासिन्याः मन्दिरे विधिविधानपूर्वकं दर्शन-पूजनं कृतवान् तथा प्रदेशस्य सुख-समृद्ध्यर्थं प्रार्थनाम् अकरोत्।

निर्धारित-कार्यक्रमानुसारम् उपमुख्यमन्त्री प्रातःकाले लखनऊनगरात् राजकीय-हेलिकॉप्टरयानद्वारा प्रस्थितः भूत्वा प्रायः प्रातः १०:५० वादने मीरजापुरम् अगच्छत्। ततः सः प्रत्यक्षं विंध्याचलधामम् अगच्छत्, यत्र मन्दिर-प्रशासनेन जनप्रतिनिधिभिश्च तस्य स्वागतं कृतम्। दर्शन-पूजनानन्तरं सः मन्दिर-परिसरस्य भ्रमणमपि अकरोत्।

ततः परम् उपमुख्यमन्त्री मुजेहरा-स्थितं डॉ.टमटम-बहुविशेषज्ञ-चिकित्सालयम् आयोजिते कार्यक्रमे सहभागित्वाय प्रस्थितः। तस्य आगमनस्य दृष्ट्या प्रशासनद्वारा सुरक्षायाः दृढाः प्रबन्धाः कृताः।

Hindusthan Samachar / Divya Ranjan