Enter your Email Address to subscribe to our newsletters


लखनऊनगरम्, २६ जूनमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव-प्रसाद-मौर्यः शुक्रवासरे लखनऊ-नगरे स्थिते स्वकीय-शासकीय-निवासे सप्त-कालिदास-मार्गे राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य अमर-रचयितुः बङ्किमचन्द्र-चट्टोपाध्यायस्य तथा सामाजिक-न्यायस्य अग्रदूतस्य राजर्षेः छत्रपति-शाहू-महाराज्ञ: जयन्त्याः अवसरे तयोः स्मृति-चित्रयोः पुष्पाञ्जलिम् अर्पयित्वा श्रद्धाञ्जलिं समर्पितवान्।
उपमुख्यमन्त्री सामाजिक-माध्यमेषु प्रकाशिते स्वसन्देशे अलिखत् यत् बङ्किमचन्द्र-चट्टोपाध्यायः स्वस्य साहित्येन तथा राष्ट्रगीतेन ‘वन्दे मातरम्’ देशभक्तेः चेतनायै नवीनां ऊर्जां प्रदत्तवान्। अपरतः राजर्षिः छत्रपति-शाहू-महाराजः शिक्षायै, सामाजिक-समतायै तथा वञ्चित-वर्गाणाम् उत्थानाय स्वसम्पूर्णं जीवनं समर्पितवान्।
सः अवदत् यत् शाहू-महाराजेन शिक्षा-सामाजिक-न्याययोः वञ्चित-वर्गाणाम् उत्थानस्य च क्षेत्रे महत्त्वपूर्णं योगदानं प्रदाय समाजे समतायाः सम्मानस्य च नवीन-चेतना प्रसारिता। तस्य प्रगतिशील-विचाराः लोकहितकारी-नीतयश्च अद्यापि समतामूलकस्य सशक्तस्य च समाजस्य निर्माणाय प्रेरणां ददति।
उपमुख्यमन्त्री अवदत् यत् एतयोः महापुरुषयोः प्रेरणाप्रदं जीवनं राष्ट्रहिताय च तयोः अमूल्यं योगदानं सर्वदा अस्मान् राष्ट्रसेवायै, सामाजिक-समरसतायै तथा जनकल्याणाय अग्रे गन्तुं प्रेरयिष्यति।
/ अंशु गुप्ता