बङ्किमचन्द्र-चट्टोपाध्यायस्य जयन्त्यां मुख्यमन्त्री अवदत्—‘वन्दे मातरम्’ इत्यस्य सार्धशताब्दी-पूर्त्यवसरे राष्ट्रिय-सङ्ग्रहालयस्य स्थापना भविष्यति
कोलकातानगरम्, २६ जूनमासः (हि.स.)। कोलकाता-नगरस्य कॉलेज-स्ट्रीट-क्षेत्रे साहित्य-सम्राटः बङ्किमचन्द्र-चट्टोपाध्यायस्य एकोननवतितम-शततम-जयन्त्याः अवसरे आयोजिते कार्यक्रमे राज्यस्य मुख्यमन्त्री शुभेन्दु-अधिकारी सहभागी अभवत्। अस्मिन् अवसरे सः राज्यस्य प
शुभेंदु अधिकारी


कोलकातानगरम्, २६ जूनमासः (हि.स.)। कोलकाता-नगरस्य कॉलेज-स्ट्रीट-क्षेत्रे साहित्य-सम्राटः बङ्किमचन्द्र-चट्टोपाध्यायस्य एकोननवतितम-शततम-जयन्त्याः अवसरे आयोजिते कार्यक्रमे राज्यस्य मुख्यमन्त्री शुभेन्दु-अधिकारी सहभागी अभवत्। अस्मिन् अवसरे सः राज्यस्य पूर्व-तृणमूल-सर्वकारम् आलोचयन् अवदत् यत् तस्य सम्पूर्णः कार्यकालः तुष्टीकरणेन, भ्रष्टाचारेण, बान्धव-पक्षपातेन तथा पश्चिमबङ्गस्य अवनतौ एव व्यतीतः। सः अवदत् यत् राष्ट्रवादः देशभक्तिश्च तस्याः सर्वकारस्य कार्यसूच्यां कदापि नास्ताम्।

मुख्यमन्त्री अवदत् यत् सम्प्रति राज्ये राष्ट्रवादी-सर्वकारः सत्तायाम् अस्ति, अतः राष्ट्रहितसम्बद्धानि सर्वाणि कार्याणि क्रियन्ते। सः अपि अवदत् यत् राज्य-सर्वकारेण स्वीये वित्तीय-प्राक्कलने घोषणा कृता यत् ‘वन्दे मातरम्’ इत्यस्य सार्धशताब्दी-पूर्त्युपलक्ष्ये राष्ट्रिय-स्तरस्य एकः सङ्ग्रहालयः स्थापितः भविष्यति।

मुख्यमन्त्री कोलकाता-नगरस्य तारातला-क्षेत्रे निर्माणाधीन-भण्डारगृहस्य पतन-घटनामपि उल्लिखितवान्। सः अवदत् यत् दुर्घटनास्थले अवशेष-अपसारणस्य कार्यम् अविरतं प्रचलति तथा राहत-उद्धार-अभियानम् अपि पूर्ण-गम्भीरतया सञ्चाल्यते।

/ अंशु गुप्ता