Enter your Email Address to subscribe to our newsletters

हिसारनगरम्, २६ जूनमासः (हि.स.)। भारतीयजनतापक्षस्य नवनियुक्ता प्रदेशाध्यक्षा डॉ.अर्चनागुप्ता हिसारनगरे आगमने कार्यकर्तृभिः ऐतिहासिकेन भव्येन च स्वागतसमारोहेण सत्कृता। नगरस्य विभिन्नस्थानेषु पुष्पवृष्ट्या, जयघोषैः, उत्साहपूर्णेन स्वागतैश्च तस्याः अभिनन्दनम् अभवत्। अग्रसेन-भवने आयोजिते अभिनन्दन-समारोहे पक्षस्य पदाधिकारिणः, कार्यकर्तारः, गणमान्य-नागरिकाश्च बहुसंख्यया उपस्थिताः आसन्।
समारोहम् सम्बोधयन्ती डॉ.अर्चनागुप्ता शुक्रवासरे अवदत् यत्, प्रधानमन्त्री-नरेन्द्रमोदिनः नेतृत्वे भारतेन ‘राष्ट्रं प्रथमम्’ इति सङ्कल्पः साकारः कृतः, तथा च वैश्विकमञ्चे स्वस्य परिचयः नूतन-उच्चतां प्राप्तः। अद्य भारतं केवलं विश्वे स्वीयाम् उपस्थितिं सूचयन् देशः नास्ति, अपितु विश्वाय नूतनां दिशं प्रदर्शयन् राष्ट्रम् अभवत्। सा कार्यकर्तॄन् आहूतवती यत् ते पक्षस्य सुदृढीकरणाय कार्यं कुर्वन्तु, स्वस्व-मतदानकेन्द्रं सुदृढं स्थापयन्तु, तथा च ‘मतदानकेन्द्रं विजितं चेत् निर्वाचनम् अपि विजितम्’ इति रणनीत्याः आधारेण कार्यं कुर्वन्तु। सा अवदत् यत् भारतीयजनतापक्षः विश्वस्य बृहत्तमः राजनैतिकपक्षः अस्ति, तस्य अस्य उच्चस्थितेः प्राप्तौ कार्यकर्तॄणां महत्त्वपूर्णा भूमिका वर्तते।
प्रदेशाध्यक्षा अवदत् यत् केन्द्रस्य मोदी-सर्वकारः तथा हरियाणा-राज्यस्य नायबसिंहसैनी-सर्वकारः ‘सर्वेषां सहयोगः, सर्वेषां विकासः, सर्वेषां विश्वासः, सर्वेषां प्रयासः’ इति मन्त्रस्य आधारेण कार्यं कुर्वतः।
अस्मिन्नवसरे मन्त्रिपरिषदः सदस्यः रणबीरगङ्गवा प्रदेशाध्यक्षायाः स्वागतं कृत्वा अवदत् यत् डॉ. अर्चना गुप्तायाः नेतृत्वे सङ्घटनम् अधिकं सुदृढं गतिशीलं च भविष्यति। पक्षस्य कार्यकर्तारः सङ्घटनं प्रति पूर्णसमर्पिताः सन्ति तथा च तस्य सुदृढीकरणाय अहर्निशं कार्यरताः सन्ति।
मन्त्रिपरिषदः सदस्यः कृष्णबेदी अवदत् यत् हिसारे प्रदेशाध्यक्षायाः स्वागतं प्रति कार्यकर्तृषु समाजस्य विभिन्नवर्गेषु च महान् उत्साहः दृष्टः। अयं उत्साहः भारतीयजनतापक्षं प्रति जनतायाः गाढविश्वासस्य प्रमाणम् अस्ति। भाजपापक्षस्य जनपदाध्यक्षा डॉ.आशाखेदड: अवदत् यत् प्रदेशाध्यक्षायाः प्रथम-हिसारागमनेन कार्यकर्तृषु नूतना ऊर्जा उत्साहश्च सञ्चारितः। तया विश्वासः व्यक्तीकृतः यत् तस्याः नेतृत्वे सङ्घटनं नूतनाः उच्चताः प्राप्स्यति।
समारोहे विधायकाः सावित्रीजिंदल:, रणधीरपनिहार: तथा हिसारस्य महापौरः प्रवीन: पोपली अपि सम्बोधितवन्तः तथा च कार्यकर्तॄन् सङ्घटनं अधिकं सुदृढं कर्तुम् आहूतवन्तः।
Hindusthan Samachar / Divya Ranjan