Enter your Email Address to subscribe to our newsletters

हरिद्वारनगरम्, २६ जूनमासः (हि.स.)। विश्व-मादकद्रव्य-दुरुपयोग-अवैध-तस्करी-निरोध-दिवसस्य अवसरे भारतसर्वकारस्य सामाजिक-न्याय-अधिकारिता-मन्त्रालयेन आयोजितस्य नशामुक्त-भारत-सप्ताहस्य समापन-समारोहः अद्य हरिद्वार-स्थिते देवसंस्कृति-विश्वविद्यालये सम्पन्नः।
अस्मिन् अवसरे भारतसर्वकारस्य सामाजिक-न्याय-अधिकारिता-मन्त्रालयस्य अखिलविश्व-गायत्री-परिवारस्य च मध्ये महत्त्वपूर्णे समझौता-ज्ञापने हस्ताक्षराणि कृतानि। अस्य सन्धे: अन्तर्गतं उभे संस्थे देशव्यापि मादकद्रव्य-दुरुपयोगस्य अवैध-तस्कर्याश्च विरुद्धं व्यापकं जनजागरण-अभियानं संयुक्तरूपेण सञ्चालयिष्यतः।
अवसरेऽस्मिन् अखिलविश्व-गायत्री-परिवारस्य द्विसहस्राधिकैः स्वयंसेवकैः साधकैश्च नशामुक्त-भारतस्य सङ्कल्पेन विशाला जनजागरण-यात्रा आयोजिता। शान्तिकुञ्जात् प्रारब्धा एषा यात्रा विभिन्न-प्रमुख-मार्गान् अतिक्रम्य देवसंस्कृति-विश्वविद्यालय-परिसरम् अगच्छत्, यत्र जनसभायाः आयोजनम् अभवत्। यात्रायां युवानः, महिलाः, विद्यार्थिनः, विभिन्न-राज्येभ्यः आगताः प्रतिनिधयश्च उत्साहपूर्वकं सहभागित्वं कृत्वा नशामुक्त-समाज-निर्माणस्य सन्देशम् अददुः।
सभां सम्बोधयन् मुख्यातिथिः केन्द्रीय-सामाजिक-न्याय-अधिकारिता-मन्त्री डॉ.वीरेन्द्र-कुमारः अवदत् यत् नशा केवलं व्यक्तिमेव न, अपितु सम्पूर्णं परिवारं समाजं च दुर्बलं करोति। तस्य उन्मूलनाय केवलं शासकीय-प्रयत्नाः पर्याप्ताः न सन्ति, अपितु सामाजिक-आध्यात्मिक-संस्थाः अपि सक्रियतया सहभागित्वं कुर्वन्तु इति आवश्यकम्। अखिलविश्व-गायत्री-परिवारेण सह सम्पन्नः अयं समझौतः नशामुक्त-भारत-अभियानं जनं जनं प्रति प्रसारयितुं मील-प्रस्तरवत् सिद्धः भविष्यति।
कार्यक्रमस्य अध्यक्षतां कुर्वन् देवसंस्कृति-विश्वविद्यालयस्य प्रतिकुलपतिः डॉ.चिन्मय-पण्ड्या अवदत् यत् नशामुक्तेः आरम्भः व्यक्तेः अन्तःकरणे आत्मविश्वासस्य ज्योतिं प्रज्वालयितुं भवति। सः अवदत् यत् परिवारं, समाजं, राज्यं, राष्ट्रं च नशारूपात् सामाजिक-दोषात् मुक्तं कर्तुं सामूहिक-प्रयत्नाः आवश्यकाः। भारतस्य महान् सांस्कृतिक-परम्पराः संयमस्य, सदाचारस्य, आत्मानुशासनस्य च प्रेरणां ददति। अद्य अस्माकं सामूहिकी उत्तरदायित्वं वर्तते यत् व्यसनग्रस्तान् कोटिशः जनान् नशामुक्त-जीवनाय प्रेरयेम तथा तेषु स्वस्थ-सकारात्मक-राष्ट्रनिर्माण-भावनायाः सञ्चारं कुर्याम।
तेन स्वयम् अपि नशां न सेवितुं तथा न्यूनातिन्यूनम् एकं जनं नशात्यागाय प्रेरयितुं सङ्कल्पः कर्तव्यः इति प्रेरणा दत्ता। परमार्थ-निकेतनस्य अध्यक्षः स्वामी चिदानन्द-सरस्वती अपि दुर्व्यसनात् दूरं स्थितुं जनान् आह्वानम् अकरोत्।
अस्मिन् अवसरे सम्पन्ने समझौता-ज्ञापने अखिलविश्व-गायत्री-परिवारस्य पक्षतः शान्तिकुञ्जस्य व्यवस्थापकः योगेन्द्र-गिरिः, वीरेन्द्र-तिवारी, उदय-किशोर-मिश्रः च हस्ताक्षराणि कृतवन्तः। सामाजिक-न्याय-अधिकारिता-मन्त्रालयस्य पक्षतः विभागस्य वरिष्ठ-अधिकारिभिः अपि हस्ताक्षराणि कृतानि।
कार्यक्रमे राज्यस्य उच्च-शिक्षामन्त्री डॉ.धनसिंह-रावतः, अल्पसंख्यक-कल्याणमन्त्री खजान-दासः, सामाजिक-न्याय-अधिकारिता-विभागस्य संयुक्त-सचिवः सन्दीप-राठौडः, विभिन्न-विभागानां अधिकारिणः, देवसंस्कृति-विश्वविद्यालयस्य शान्तिकुञ्ज-परिवारस्य च सदस्याः, देशस्य विभिन्न-प्रदेशेभ्यः आगताः प्रतिनिधयः, विद्यार्थिनः तथा बहुसंख्याकाः सामाजिक-कार्यकर्तारः उपस्थिताः आसन्। सर्वे सङ्कल्पम् अकुर्वन् यत् जनजागरणेन, संस्कार-निर्माणेन, सामाजिक-सहभागितया च भारतं नशामुक्तं कर्तुं राष्ट्रीयमिदम् अभियानं जनं जनं प्रति प्रापयिष्यन्ति।
Hindusthan Samachar / Divya Ranjan