Enter your Email Address to subscribe to our newsletters

अयोध्यानगरम्, २७ जूनमासः (हि.स.)। हनुमद्गढ्याः उज्जैनिया-पट्ट्याः श्रीमहन्तः सन्तरामदास-महाराजः शनिवासरे दिवं गतः। तस्य शिष्यः महन्तः राजूदासः एतां सूचनां दत्त्वा अवदत् यत् अद्य शनिवासरे अपराह्णे त्रिवादने शोभायात्रा निष्कासिता भविष्यति। तदनन्तरं सायं चतुर्वादने सरयू-नद्याः तटे नूतनघाटे तस्य अन्त्येष्टिः सम्पादिता भविष्यति।
Hindusthan Samachar / Divya Ranjan